All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
मान्तवर्गः · मद्वितीयम्
मद्वितीयम् ।
अमो रोगेऽपि तद्भेदे स्यादपक्वे तु वाच्यवत् ॥ २ ॥
26.2.2 · p. 241
इध्मः पुंसि वसन्ते स्यादिध्मः स्यान्मीनकेतने ।उमा गौर्यामतस्यां च हरिद्राकान्तिकीर्तिषु ॥ ३ ॥
26.2.3 · p. 241
अनुष्टुप्
उमस्तु स्यात्पुमानेव मतो नगरघट्टयोः ।ऊर्म्मिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः ॥ ४ ॥
26.2.4 · p. 242
अनुष्टुप्
वस्त्रसंकोचरेखायामुत्कण्ठापीडयोरपि ।कामः स्मरेच्छयोः काम्ये कामं रेतोनिकामयोः ॥ ५ ॥
26.2.5 · p. 242
अनुष्टुप्
सम्मते स्यादनुमतौ काममित्येतदव्ययम् ।कामिः स्त्री कामकान्तायां कामिः स्यात्कामुके पुमान् ॥ ६ ॥
26.2.6 · p. 242
अनुष्टुप्
सर्वनाम्नि किमित्येतद्विज्ञेयमभिधेयवत् ।किं वितर्केऽव्यये प्रश्ने क्षेपे निन्दाप्रकारयोः ॥ ७ ॥
26.2.7 · p. 242
अनुष्टुप्
किर्म्मिः स्त्री स्वर्णपुत्र्यां स्यादपि मालापलाशयोः ।कृमिर्ना क्रिमिवत्कीटे लाक्षायां कृमिले खरे ॥ ८ ॥
26.2.8 · p. 242
अनुष्टुप्
क्रमः शक्तिपरीपाटीचलने कम्पनेऽपि च ।खर्मः क्षौमप्रभेदेऽपि खर्मे स्यादपि पौरुषे ॥ ९ ॥
26.2.9 · p. 242
अनुष्टुप्
गमो द्यूतान्तरे मार्गेऽप्यपर्यालोचितेऽपि च ।गुल्मः स्तम्बे चमूरक्षासैन्ययोः प्लीहघट्टयोः ॥ १० ॥
26.2.10 · p. 243
अनुष्टुप्
गुल्मी स्यादामलक्येलावनिकावस्त्रवेश्मसु ।ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ॥ ११ ॥
26.2.11 · p. 243
अनुष्टुप्
घर्म्मः स्यादातपे ग्रीष्मे ऊष्मस्वेदजलेऽपि च ।जाल्मः स्यात्पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि ॥ १२ ॥
26.2.12 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
जिह्मं तु तगरे जिह्मस्त्रिषु स्यान्मन्दवक्रयोः ।हरिद्यवेऽपि हरिते तोक्मस्तोक्मं श्रुतेर्म्मले ॥ १३ ॥
26.2.13 · p. 243
अनुष्टुप्
दमस्तु दमने दण्डे दमथे कर्द्दमेऽपि च ।दस्मो वैश्वानरे चौरे यजमानेऽपि च स्मृतः ॥ १४ ॥
26.2.14 · p. 243
अनुष्टुप्
द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे ।धर्म्मः स्यादस्त्रियां पुण्ये धर्म्मो न्यायस्वभावयोः ॥ १५ ॥
26.2.15 · p. 243
अनुष्टुप्
उपमायां यमाचारवेदान्तेऽपि धनुष्यपि ।यागे योगेऽप्यहिंसायां सोमपेऽपि क्वचिन्मतः ॥ १६ ॥
26.2.16 · p. 244
अनुष्टुप्
ध्यामो गन्धतृणे पुंसि ध्यामो दमनकेऽपि च ।श्यामवर्णे त्रिषु ध्यामो नुमा नाम्नि परद्युतौ ॥ १७ ॥
26.2.17 · p. 244
अनुष्टुप्
नेमिः कूपत्रिकायां स्याच्चक्रान्ते तिनिशद्रुमे ।नेमोऽर्द्धकीलसीमासु गर्त्तप्राकारकैतवे ॥ १८ ॥
26.2.18 · p. 244
अनुष्टुप्
पद्मोऽस्त्री पद्मनालेऽब्जे व्यूहसंख्यान्तरे निधौ ।पद्मके नागभेदे ना पद्मा भार्ङ्गीश्रियोः स्त्रियाम् ॥ १९ ॥
26.2.19 · p. 244
अनुष्टुप्
ब्राह्मी तु भारतीपङ्कगतिकाब्रह्मशक्तिषु ।फञ्जिकायां तथा सोमवल्लरीशाकयोरपि ॥ २० ॥
26.2.20 · p. 244
अनुष्टुप्
भामः क्रोधे रवौ भासि भीमः शम्भौ वृकोदरे ।स्यादम्लवेतसे भीमस्त्रिषु घोरे भयानके ॥ २१ ॥
26.2.21 · p. 244
अनुष्टुप्
भीष्मस्तु हरगाङ्गेयरक्षसि त्रिषु भीषणे ।स्थानमात्रे क्षितौ भूमिर्भौमस्तु नरके कुजे ॥ २२ ॥
26.2.22 · p. 245
अनुष्टुप्
भ्रमो भ्रान्तौ च कुन्दाख्ययन्त्रे च जलनिर्गमे ।संयमे यमजे धर्मराजे ध्वाङ्क्षे युगे यमः ॥ २३ ॥
26.2.23 · p. 245
अनुष्टुप्
नित्यकर्मप्रभेदे च यमुनायां यमी स्त्रियाम् ।प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोः ॥ २४ ॥
26.2.24 · p. 245
अनुष्टुप्
प्रध्मश्चापेपि संग्रामे राममाधवयोषिति ।रमस्तु मन्मथे कान्ते रमोऽशोकमहीरुहे ॥ २५ ॥
26.2.25 · p. 245
अनुष्टुप्
रश्मिरंशुप्रग्रहयो रश्मिर्लोचनलोमनि ।रामस्तु राघवे जामदग्न्ये हलधरेऽपि च ॥ २६ ॥
26.2.26 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
पशुभेदे सितश्याममनोज्ञेषु तु वाच्यवत् ।रामाङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः ॥ २७ ॥
26.2.27 · p. 245
अनुष्टुप्
मनोरमेऽभिपूर्वायां रुक्मं तु स्वर्णलोहयोः ।रुमा सुग्रीवकान्तायां रुमा तु लवणाकरे ॥ २८ ॥
26.2.28 · p. 246
अनुष्टुप्
लक्ष्मीः श्रीरिव संपत्तौ पद्मशोभाप्रियङ्गषु ।लक्ष्मीः स्यादौषधीभेदे नञः पूर्वा तु निर्ऋतौ ॥ २९ ॥
26.2.29 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
वमिः स्यात्पावके पुंसि वमिस्तु वमने स्त्रियाम् ।वामः सव्ये हरे कामे धने वित्ते तु न द्वयोः ॥ ३० ॥
26.2.30 · p. 246
अनुष्टुप्
वल्गुप्रतीपयोर्वामस्त्रिषु वामा तु योषिति ।वामी शृगाल्यां वडवारासभीकरभीष्वपि ॥ ३१ ॥
26.2.31 · p. 246
अनुष्टुप्
शमी शक्तुफलायां स्याच्छिवायां वल्गुलावपि ।शुष्मः पुमान्दिनपतौ मतं शुष्मं तु तेजसि ॥ ३२ ॥
26.2.32 · p. 246
अनुष्टुप्
श्यामस्तु हरिते कृष्णे प्रयागस्य वटद्रुमे ।पिके पयोधरे वृद्धदारकेऽपि पुमानयम् ॥ ३३ ॥
26.2.33 · p. 246
अनुष्टुप्
श्यामवर्णे हरिद्वर्णे त्रिषु श्यामा तु वल्गुलौ ।अप्रसूताङ्गनायां च श्यामा सोमलतोषधौ ॥ ३४ ॥
26.2.34 · p. 247
अनुष्टुप्
त्रिवृताशारिवागुन्द्रानिशानीलीप्रियङ्गुषु ।श्यामं लवणभेदेऽपि श्यामं स्यान्मरिचेऽपि च ॥ ३५ ॥
26.2.35 · p. 247
अनुष्टुप्
श्रामस्तु मण्डपे काले विपूर्वः श्रमवञ्चने ।समा वर्षे सदृक्सर्वमान्येषु च समं त्रिषु ॥ ३६ ॥
26.2.36 · p. 247
अनुष्टुप्
सीमाऽवधौ च वेलायां क्षेत्रे घाटे स्थितावपि ।सूक्ष्मं तु नभसि क्षीरे सूक्ष्ममल्पेऽभिधेयवत् ॥ ३७ ॥
26.2.37 · p. 247
अनुष्टुप्
कतकाऽध्यात्मयोः सूक्ष्मं सूक्ष्मः पुंस्यणुमात्रके ।सोमः सुधांशुकर्पूरकुबेरपितृदैवते ॥ ३८ ॥
26.2.38 · p. 247
अनुष्टुप्
दिव्यौषधीश्यामलतावसुभिद्वातवानरे ।तुषारे चन्दने शीते हिमं त्रिषु तु शीतले ॥ ३९ ॥
26.2.39 · p. 247
अनुष्टुप्
होमिरग्नौ घृते चाथ क्षितौ क्षान्तावपि क्षमा ।क्षमं युक्ते क्षमः शक्ते हिते क्षान्त्यन्वितेऽन्यवत् ॥ ४० ॥
26.2.40 · p. 248
अनुष्टुप्
क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे ।मङ्गले चोरके वा स्त्री क्षेमा चण्डाहरस्त्रियोः ॥ ४१ ॥
26.2.41 · p. 248
अनुष्टुप्
क्षौमं स्यादतसीवस्त्रे क्षौममट्टदुकूलयोः ।
26.2.41 · p. 248