All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
णान्तवर्गः · णचतुर्थम्
णचतुर्थम् ।
अङ्गारिणी हसन्त्यां स्याद् भास्करत्यक्तदिश्यपि ॥ ८८ ॥
16.3.88 · p. 114
आतर्पणं तु सौहित्ये मङ्गलालेपनेऽपि च ।आथर्वणस्त्वथर्वज्ञद्विजन्मनि पुरोहिते ॥ ८९ ॥
16.3.89 · p. 114
अनुष्टुप्
आरोहणं तु सोपाने समारोहप्ररोहयोः ।उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि ॥ ९० ॥
16.3.90 · p. 114
अनुष्टुप्
वान्तोन्मूलननिस्तारोन्नयेषूद्धरणं मतम् ।अथ कामगुणो रागेऽप्याभोगे विषयेऽपि च ॥ ९१ ॥
16.3.91 · p. 114
अनुष्टुप्
कार्षापणः पुराणे स्यादस्त्रियामपि कार्षिके ।चीर्णपर्णस्तु खर्जूरीपादपे पिचुमर्दके ॥ ९२ ॥
16.3.92 · p. 115
अनुष्टुप्
चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च ।जुहुराणोऽनलेऽध्वर्यौ तण्डुरीणस्तु कीटके ॥ ९३ ॥
16.3.93 · p. 115
अनुष्टुप्
स्यात्तन्दुलोदके चैव याम्यदेशीयबर्बरे ।तैलपर्णी मलयजे सिह्लश्रीवासयोरपि ॥ ९४ ॥
16.3.94 · p. 115
अनुष्टुप्
दाक्षायणी च दुर्गायां रोहिण्यां तारकासु च ।देवमणिः शिवे वाजिकण्ठावर्त्ते च कौस्तुभे ॥ ९५ ॥
16.3.95 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
नारायणोऽच्युतेऽभीरुगौर्योर्नारायणी स्त्रियाम् ।गले निगरणः पुंसि भोजने तु नपुंसकम् ॥ ९६ ॥
16.3.96 · p. 115
अनुष्टुप्
निरूपणं विचारे स्यादालोकननिदर्शने ।निस्तरणं स्यान्निस्तारेऽप्युपाये निर्गमेऽपि च ॥ ९७ ॥
16.3.97 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 स्त (wrong syllable)
निस्सरणं द्वारमुक्तिनिर्याणोपायमृत्युषु ।परीरणः स्यात्कमठे दण्डे च पट्टशाटके ॥ ९८ ॥
16.3.98 · p. 116
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
पर्वरीणस्तु पर्णस्य शिरायां घूतकम्बले ।पर्णवृन्तरसेऽपि स्यात् सितसौरभपर्वणोः ॥ ९९ ॥
16.3.99 · p. 116
अनुष्टुप्
परवाणिस्तु कथितो धर्माऽध्यक्षेऽपि वत्सरे ।त्रिषु स्यात्तत्परेऽभीष्टेऽप्याश्रये तु परायणम् ॥ १०० ॥
16.3.100 · p. 116
अनुष्टुप्
पारायणं पारगतौ सम्यगासङ्गकार्त्स्न्ययोः ।पीलुपर्णी तु मूर्वायां बिम्बायामोषधीभिदि ॥ १०१ ॥
16.3.101 · p. 116
अनुष्टुप्
पुष्करिणी सरोजिन्यां हस्तिन्यां च जलाशये ।स्यात्प्रतिपणः संस्कारेऽप्युपग्रहनिषङ्गयोः ॥ १०२ ॥
16.3.102 · p. 116
metre not recognised
प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् ।वारवाणस्तु कवचे सर्वसन्नहनेऽपि च ॥ १०३ ॥
16.3.103 · p. 116
अनुष्टुप्
मीनास्त्रीणो मतः पुंसि दर्दराम्रेऽपि खञ्जने ।रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्भवे ॥ १०४ ॥
16.3.104 · p. 117
अनुष्टुप्
रागचूर्णः स्मरे रक्तवालुके दन्तधावने ।रेरिहाणः पशुपतौ रेरिहाणो विहायसि ॥ १०५ ॥
16.3.105 · p. 117
अनुष्टुप्
लम्बकर्णो मतश्छागे स्यादङ्कोरमहीरुहे ।अस्त्री विदारणं युद्धे भेदने च विडम्बने ॥ १०६ ॥
16.3.106 · p. 117
अनुष्टुप्
भवेद्वैतरणी प्रेतनद्यां राक्षसमातरि ।शरवाणिः शरमुखे पापिष्ठे शरजीविनि ॥ १०७ ॥
16.3.107 · p. 117
अनुष्टुप्
स्त्रियां शिखरिणी वृत्तभेदे तक्रप्रभेदयोः ।स्त्रीरत्ने मल्लिकायां च रोमावल्यामपि स्मृता ॥ १०८ ॥
16.3.108 · p. 117
अनुष्टुप्
समीरणः स्यात्पवने प्रस्थपुष्पकपान्थयोः ।संसरणं स्यात्संसारे पुरनिर्गमगोपुरे ॥ १०९ ॥
16.3.109 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 स (wrong syllable)
घण्टापथे रणारम्भेऽप्यसंबाधचमूगतौ ।हस्तिकर्णोऽयमेरण्डे पलाशगणभेदयोः ॥ ११० ॥
16.3.110 · p. 118
अनुष्टुप्