कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

तान्तवर्गः · ततृतीयम्

ततृतीयम् ।

अगस्तिर्वङ्गसेनद्रौ स्यादगस्त्येऽप्यथाङ्कतिः ।अग्निब्रह्माऽग्निहोत्रेषु स्थिरे दामोदरेऽच्युतः ॥ ७६ ॥
17.3.76 · p. 132
अनुष्टुप्
अजितोऽनिर्जिते विष्णावदितिर्देवसूभुवोः ।अनृतं स्यान्मृषाकृप्योरनन्तो विष्णुशेषयोः ॥ ७७ ॥
17.3.77 · p. 132
अनुष्टुप्
अनन्तं गगनेऽनन्तं भवेदनवधौ त्रिषु ।अनन्ता पृथिवीदूर्वापार्वतीलाङ्गलीष्वपि ॥ ७८ ॥
17.3.78 · p. 132
अनुष्टुप्
सारिवायां गुडूच्यां च समुद्रान्ताविशल्ययोः ।अमृतं मोक्षपीयूषसलिले हृद्यवस्तुनि ॥ ७९ ॥
17.3.79 · p. 132
अनुष्टुप्
अयाचिते यज्ञशेषे घृते दुग्धेऽतिसुन्दरे ।अमृतस्तु मतः पुंसि धन्वंतरिसुपर्वणोः ॥ ८० ॥
17.3.80 · p. 133
अनुष्टुप्
गुडूच्यामलकीपथ्यामागधीष्वमृता मता ।अमतिर्भाविकाले स्यादर्हंस्तु जिनपूज्ययोः ॥ ८१ ॥
17.3.81 · p. 133
अनुष्टुप्
अर्दितः पवनव्याधौ याचिताऽहतयोस्त्रिषु ।अर्वती चेटिकावाम्योरश्वेऽर्वन् कुत्सितेऽन्यवत् ॥ ८२ ॥
17.3.82 · p. 133
अनुष्टुप्
अव्यक्तस्तु हरौ हीरे मूर्खे वाच्यवदस्फुटे ।वाच्यवत्क्षतहीने स्यादाकृतिः कायरूपयोः ॥ ८३ ॥
17.3.83 · p. 133
अनुष्टुप्
सामान्येऽपि तथाख्यातमाख्यातं कथिते तिङि ।अथ वाच्यवदाख्यातं घ्राणिते हिंसितेऽपि च ॥ ८४ ॥
17.3.84 · p. 133
अनुष्टुप्
आचितस्तु चिते छन्ने संगृहीते त्रिलिङ्गकः ।आचितः शकटोन्मेये पलानामयुतद्वये ॥ ८५ ॥
17.3.85 · p. 133
अनुष्टुप्
आदृतः सादरेऽपि स्यात् पूजितेऽप्यभिधेयवत् ।आध्मातः पवनव्याधौ दग्धशब्दितयोस्रिषु ॥ ८६ ॥
17.3.86 · p. 134
अनुष्टुप्
आनर्त्तो नर्तनस्थाने देशभेदे रणे जले ।पाते तदात्वेऽप्यापात आपतिः प्राप्तिदोषयोः ॥ ८७ ॥
17.3.87 · p. 134
अनुष्टुप्
आप्लुतः स्नातके पुंसि स्नाते स्यादभिधेयवत् ।आयत्तिः स्नेहमयोदावशितावलवासरे ॥ ८८ ॥
17.3.88 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
आयतिस्तु यमे दैर्घ्ये प्रभावोत्तरकालयोः ।आयस्तस्तेजिते क्षिप्ते कुपिते क्लेशिते हते ॥ ८९ ॥
17.3.89 · p. 134
अनुष्टुप्
आवर्त्तश्चिन्तने चाऽऽवर्तने वाप्यम्भसां श्रमे ।आस्फोतस्त्वर्कपर्णे स्यादास्फोतः कोविदारके ॥ ९० ॥
17.3.90 · p. 134
अनुष्टुप्
आस्फोता गिरिकर्ण्यां च वनमल्यामपि स्त्रियाम् ।आसत्तिः सङ्गमे लाभे आहतं तु मृषार्थके ॥ ९१ ॥
17.3.91 · p. 134
अनुष्टुप्
स्यात्पुरातनवस्त्रेऽपि नववस्त्रेऽपि वाहतम् ।आहतं चानकेऽपि स्यात्ताडिते ग्रसिते त्रिषु ॥ ९२ ॥
17.3.92 · p. 135
अनुष्टुप्
इङ्गितं चेष्टिते गत्यामुचितं तु समञ्जसे ।अनुमत्यां मिताऽभ्यस्तज्ञातेषु त्रिषु च त्रिषु ॥ ९३ ॥
17.3.93 · p. 135
अनुष्टुप्
उच्छ्रितं तु प्रवृद्धे स्यात् सञ्जातेऽप्युन्नतेऽन्यवत् ।उत्तप्तं शुष्केऽपिशिते संतप्ते च परिप्लुते ॥ ९४ ॥
17.3.94 · p. 135
अनुष्टुप्
वृद्धिमत्युन्मनस्केऽपि प्रोद्यते मतमुत्थितम् ।उच्छ्रितं तु त्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि ॥ ९५ ॥
17.3.95 · p. 135
अनुष्टुप्
उदितं सूदिते प्राप्तेऽप्युद्गतप्रोक्तयोस्त्रिषु ।उद्धातो मुद्गरे वायुयोगार्थं कुम्भकादिषु ॥ ९६ ॥
17.3.96 · p. 135
अनुष्टुप्
उद्रङ्गे स्खलनेऽप्यर्थाऽऽधानेऽपि समुपक्रमे ।स्यादुदन्तस्तु वार्तायामुदन्तः सज्जनेऽपि च ॥ ९७ ॥
17.3.97 · p. 135
अनुष्टुप्
त्रिषूद्वान्तः समुद्गीर्णे पुमान्निर्मददन्तिषु ।उदात्तः स्वरभेदे स्यात् काव्यालङ्करणेऽपि च ॥ ९८ ॥
17.3.98 · p. 136
अनुष्टुप्
उदात्तो दातृमहतोर्मता हृद्येऽपि वाच्यवत् ।उद्धृतं तु सिते भुक्तोज्झितेऽप्यातोलिते मृते ॥ ९९ ॥
17.3.99 · p. 136
अनुष्टुप्
उन्नतिस्तूदये वृद्धावुद्गतौ तार्क्ष्ययोषिति ।उन्मत्त उन्मादवति धत्तूरमुचकुन्दयोः ॥ १०० ॥
17.3.100 · p. 136
अनुष्टुप्
उषितं व्युषिते दग्धेऽप्यूर्म्मितं क्षिप्तदग्धयोः ।एधतुः पुरुषे वह्नावंहतिस्त्यागरोगयोः ॥ १०१ ॥
17.3.101 · p. 136
अनुष्टुप्
कपोतः स्यात्कलरवे कवकाख्ये विहङ्गमे ।कलितं विदितेप्याप्ते स्वीकृतेऽप्यभिधेयवत् ॥ १०२ ॥
17.3.102 · p. 136
अनुष्टुप्
कापोतं तद्गुणे स्रोतोऽञ्जनखञ्जिकयोरपि ।किरातः पुंसि भूनिम्बे म्लेच्छस्वल्पशरीरयोः ॥ १०३ ॥
17.3.103 · p. 136
अनुष्टुप्
वालव्यजनधारिण्यां कुट्टिनीसुरगङ्गयोः ।स्यात्किरातीति कुर्वंस्तु भृत्ये कर्म्मकरे त्रिषु ॥ १०४ ॥
17.3.104 · p. 137
अनुष्टुप्
कृतान्तो यमसिद्धान्तदैवेऽप्यशुभकर्म्मणि ।क्रन्दितं रोदितेऽपि स्यादाह्वाने कृतरोदने ॥ १०५ ॥
17.3.105 · p. 137
अनुष्टुप्
गभस्तिः किरणे सूर्ये पुंसि स्त्री वह्नियोषिति ।गर्मुत् कार्त्तस्वरे क्लीबं गर्मुच्छाखाभिधायिनि ॥ १०६ ॥
17.3.106 · p. 137
अनुष्टुप्
गर्जितो मत्तमातङ्गे गर्जितं जलदध्वनौ ।गोदन्तो हरिताले स्याद्दंशिते वर्म्मिते त्रिषु ॥ १०७ ॥
17.3.107 · p. 137
अनुष्टुप्
गोपतिः पार्थिवे षण्डे रविपण्डितशूलिषु ।ग्रंथितं गुम्फिताक्रान्तहिंसितेषु त्रिषु स्मृतम् ॥ १०८ ॥
17.3.108 · p. 137
अनुष्टुप्
चिन्तातो मोचने गाङ्गचित्ते च चिरजीविनि ।जगन्वाते पुमान्क्लीबं भुवने जङ्गमे त्रिषु ॥ १०९ ॥
17.3.109 · p. 137
अनुष्टुप्
जगती जगति क्ष्मायां छन्दोभदे जनेऽपि च ।जयन्ती त्वथ गौरीन्द्रपुत्री जरा द्रुमान्तरे ॥ ११० ॥
17.3.110 · p. 138
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable); pāda 4, syllable 3 ज (wrong syllable)
वैजयन्त्यां जयन्तस्तु पाकशासनिहीरयोः ।जामाता दयिते सूर्यावर्त्ते तु दुहितुः पतौ ॥ १११ ॥
17.3.111 · p. 138
अनुष्टुप्
जीमूतो जलदे शक्रे घोषेपि वृद्धिजीविनि ।देवताडेऽपि जीमूतो जीमूतः पर्वतेऽपि च ॥ ११२ ॥
17.3.112 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
जीवातुरस्त्रियां भक्ते जीविते जीवनौषधौ ।जीवन्ती जीवनीवृक्षे शमीवन्दाऽमृतासु च ॥ ११३ ॥
17.3.113 · p. 138
अनुष्टुप्
जृम्भितं करणे स्त्रीणां वेष्टिते स्फुटिते त्रिषु ।ज्वलितो भास्करे दग्धे वानितं तनितांशुके ॥ ११४ ॥
17.3.114 · p. 138
अनुष्टुप्
वाद्यभाण्डे गुणे विस्तारे तेषु त्रिषु तानितम् ।तृणता तु तृणत्वे स्यात् तृणता कार्मुकेऽपि च ॥ ११५ ॥
17.3.115 · p. 138
अनुष्टुप्
त्रिगर्त्तः स्याज्जनपदे त्रिगर्त्तो गणितान्तरे ।विषयेऽपि त्रिगर्त्ता तु घुर्घुरीकामुकस्त्रियोः ॥ ११६ ॥
17.3.116 · p. 139
अनुष्टुप्
त्वरितं प्रजवे शीघ्रे दुर्गतिर्निरये स्त्रियाम् ।दारिद्र्येऽप्यथ दुर्ज्जातं कुजाते व्यसने तथा ॥ ११७ ॥
17.3.117 · p. 139
अनुष्टुप्
दृष्टान्तस्तु पुमाञ्शास्त्रे स्यादुदाहरणेपि च ।दंशितं वर्म्मिते दष्टे द्रवन्ती सरिदन्तरे ॥ ११८ ॥
17.3.118 · p. 139
अनुष्टुप्
मघौ चैव द्विजातिस्तु द्विजन्मनि विहङ्गमे ।धीमान्वाचस्पतौ पुंसि धीरे बुद्धिमति त्रिषु ॥ ११९ ॥
17.3.119 · p. 139
अनुष्टुप्
निकृतं विप्रलम्भेऽपि नीचे विप्रकृतेऽपि च ।निकृतिर्भर्त्सने क्षेपे निकृतिः शठशाठ्ययोः ॥ १२० ॥
17.3.120 · p. 139
अनुष्टुप्
निमित्तं लक्षणे हेतौ निमित्तं पर्वणि स्मृतम् ।आगन्तुर्देवादेशे च नियतिर्नियमे विधौ ॥ १२१ ॥
17.3.121 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते ।निष्ठ्यूतेऽपि प्रतिहते निर्म्मितस्त्वनुपद्रुते ॥ १२२ ॥
17.3.122 · p. 140
अनुष्टुप्
दिक्पालकालपर्णौ तु पुंस्त्रियोः स्यादनुक्रमात् ।निर्वृत्तिः सुस्थितासौख्यनिर्वाणाऽस्तङ्गमाध्वसु ॥ १२३ ॥
17.3.123 · p. 140
अनुष्टुप्
निर्मुक्तस्त्यक्तसङ्गे स्यात् त्यक्तकञ्चुकपन्नगे ।निर्वातो वातविगते व्याश्रये दृढवर्म्मणि ॥ १२४ ॥
17.3.124 · p. 140
अनुष्टुप्
निशान्तस्त्रिषु शान्ते स्यान्निशान्तो भवनोषसोः ।पञ्चता मृत्युमात्रेऽपि पञ्चभावेऽपि पञ्चता ॥ १२५ ॥
17.3.125 · p. 140
अनुष्टुप्
पण्डितः सिह्लके धीरे पतत्पातुकपक्षिणोः ।पद्धतिः पथि पङ्क्तौ च परेतो वाच्यवन्मृते ॥ १२६ ॥
17.3.126 · p. 140
अनुष्टुप्
भूतभेदेऽप्यथ गिरौ सुरर्षावपि पर्वतः ।पर्याप्तं वारणतुष्टियथेष्टेष्वाप्तशक्तयोः ॥ १२७ ॥
17.3.127 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
विनाशदोषकृच्छ्रेषु दण्डे तु मतमव्ययम् ।पर्याप्तिस्तु प्रकामे स्यात्प्राप्तौ च परिरक्षणे ॥ १२८ ॥
17.3.128 · p. 141
अनुष्टुप्
पर्यस्तः पतितक्षिप्तनिहतेषु त्रिषु त्रिषु ।पलितं केशपांडुत्वे पङ्के तापेऽपि शैलजे ॥ १२९ ॥
17.3.129 · p. 141
अनुष्टुप्
पक्षतिः पक्षमूले स्यात्प्रतिपद्यपि पक्षतिः ।पार्वती द्रौपदी दुर्गा जीवन्ती शल्लकीद्रुमे ॥ १३० ॥
17.3.130 · p. 141
अनुष्टुप्
पिण्डितो गणिते सान्द्रे पित्सन् पातेऽपि पक्षिणि ।पिशिता मासिकायां स्यात्पिशितं पलले मतम् ॥ १३१ ॥
17.3.131 · p. 141
अनुष्टुप्
पीडितं करणे स्त्रीणां यन्त्रिते बाधितेऽपि च ।पुटितं स्यात्करपुटे प्रसूतिः स्यूतपोटिते ॥ १३२ ॥
17.3.132 · p. 141
अनुष्टुप्
पृषतोऽपि पृषद्बिन्दौ मृगे तु पृषतः पृषन् ।स्याद्दुःस्वरेऽहितेऽप्येवं श्वेतबिन्दुयुतेऽन्यवत् ॥ १३३ ॥
17.3.133 · p. 141
अनुष्टुप्
प्रकृतिस्तु सत्त्वरजस्तमसां साम्यमात्रके ।स्वभावाऽमात्यपौरेषु लिङ्गे योनौ तथाऽऽत्मनि ॥ १३४ ॥
17.3.134 · p. 142
अनुष्टुप्metre not read in every line
प्रकृतं प्रस्तुतेऽपि स्यात्प्रकृतः प्रकृतिस्थिते ।प्रवितः शकटोन्मेये पलानामयुतद्वये ॥ १३५ ॥
17.3.135 · p. 142
अनुष्टुप्
प्रणीतः संस्कृताग्नौ स्याद्वाच्यलिङ्गः प्रवेशिते ।संस्कृते चोपपन्ने निक्षिप्ते विहितेऽपि च ॥ १३६ ॥
17.3.136 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रतीतः सादरे ख्याते हृष्टे दृष्टे विरक्षणे ।प्रतीत एते ज्ञाते च प्रततिर्व्रततौ ततौ ॥ १३७ ॥
17.3.137 · p. 142
अनुष्टुप्
प्रपातो निर्झरे कृच्छ्रे पतनावटयोरपि ।प्रभूतमुद्गते प्राज्ये प्रमीतः प्रोक्षिते मृते ॥ १३८ ॥
17.3.138 · p. 142
अनुष्टुप्
प्रवृत्तिर्वृत्तिवार्त्तान्तप्रवाहेषु प्रवर्त्तने ।प्रसूतिः प्रसवोत्पत्तिपुत्रेषु दुहितर्यपि ॥ १३९ ॥
17.3.139 · p. 142
अनुष्टुप्
प्रसूतं कुसुमे क्लीबं वाच्यवल्लब्धजन्मनि ।प्रसृता तु प्रजातायां जंघायां प्रसृता मता ॥ १४० ॥
17.3.140 · p. 143
अनुष्टुप्
प्रसृतोऽर्धाञ्जलौ सम्प्रसारे वेगिविनीतयोः ।प्रवृतं वितते क्षुण्णे प्रोक्षितं सिक्त आहते ॥ १४१ ॥
17.3.141 · p. 143
अनुष्टुप्
प्रार्थितं याचिते शत्रुरुद्धेऽप्यभिहते त्रिषु ।वार्द्धितं पूरिते छिन्ने वार्द्धितं वृद्धिशालिनि ॥ १४२ ॥
17.3.142 · p. 143
अनुष्टुप्
बृहती महतीकण्टकारिकाकलशीषु च ।वाचि च क्षुद्रवार्ताक्यां छन्दोभेदोत्तरीययोः ॥ १४३ ॥
17.3.143 · p. 143
अनुष्टुप्
भरतस्तु नटे नाट्यशास्त्रे रामाऽनुजे पुमान् ।दौष्यन्तौ शबरे तन्तुवायेऽपि भरतः स्मृतः ॥ १४४ ॥
17.3.144 · p. 143
अनुष्टुप्
भवती बाणभेदे स्यात्त्रिषु युष्मत्सदर्थयोः ।व्यासर्षिभाषिते ग्रन्थे जम्बूद्वीपेऽपि भारतः ॥ १४५ ॥
17.3.145 · p. 143
अनुष्टुप्
वाग्वाणीपक्षिणीभेदवृत्तिभेदेषु भारती ।भावितं वासिते लव्धे ध्यातेऽप्युत्पादिते त्रिषु ॥ १४६ ॥
17.3.146 · p. 144
अनुष्टुप्
भासन्तो भासविहगे सुन्दरेऽप्यभिधेयवत् ।भास्वानाभास्वरे सूर्ये भूभृद्भूपालशैलयोः ॥ १४७ ॥
17.3.147 · p. 144
अनुष्टुप्
मथितं निर्जलोदश्वित्यनवघृष्टलोडिते ।मरुत्पुंसि सुरे वाते महद्राज्ये नपुंसकम् ॥ १४८ ॥
17.3.148 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
नारदस्य तु वीणायां महती स्यात्पृथौ त्रिषु ।मालती जातियुवतिज्योत्स्नानिक्षु सरिद्भिदि ॥ १४९ ॥
17.3.149 · p. 144
अनुष्टुप्
काकमाच्यग्निशिखयोर्मुषितं खण्डिते हृते ।मूर्च्छितं मोहसंप्राप्ते सोच्छ्रयेऽपि दृढेऽपि च ॥ १५० ॥
17.3.150 · p. 144
अनुष्टुप्
रजतं रूप्यहारेभदन्तेषु विशदे त्रिषु ।रमतिर्नायके स्वर्गे रसितं खनिते रुते ॥ १५१ ॥
17.3.151 · p. 144
अनुष्टुप्
स्वर्णादिखचिते तु स्यात्त्रिष्वेव रसितं मतम् ।रेवती हलिकान्तायां ताराभेदेऽपि मातृषु ॥ १५२ ॥
17.3.152 · p. 145
अनुष्टुप्
रैवतः शैलभेदे स्यात्सुवर्णालौ हरेश्वरे ।सरलेऽन्द्रायुधे वीरे रुधिरेऽपि च रोहितम् ॥ १५३ ॥
17.3.153 · p. 145
अनुष्टुप्
रोहितो लोहिते मीने मृगभेदेऽपि रोहिणि ।रोहिदर्के पुमानेव मता रोहिल्लतान्तरे ॥ १५४ ॥
17.3.154 · p. 145
अनुष्टुप्
ललितं हारभेदे स्यात्त्रिष्वेव ललितेष्टयोः ।लोहितं कुङ्कुमे रक्ते गोशीर्षे रक्तचन्दने ॥ १५५ ॥
17.3.155 · p. 145
अनुष्टुप्
पुंस्येव मङ्गले रक्ते नदे नागे च लोहितः ।वनिता जनिताऽत्यर्थरागयोषिति योषिति ॥ १५६ ॥
17.3.156 · p. 145
अनुष्टुप्
वनितं याचिते क्लीबं शोधिते वनितं त्रिषु ।वसतिः स्यान्निशावेश्मावस्थानेष्वर्हदाश्रमे ॥ १५७ ॥
17.3.157 · p. 145
अनुष्टुप्
वहतुर्वृषभे पान्थे वहतिः सचिवे गवि ।वापितं वाच्यवद्वीजाकृतमुण्डितयोर्म्मतम् ॥ १५८ ॥
17.3.158 · p. 146
अनुष्टुप्
वासन्तः कोकिले मुद्गे करभेऽवहिते विटे ।वासन्ती माधवीयूथ्योर्वासन्ती पाटलावपि ॥ १५९ ॥
17.3.159 · p. 146
अनुष्टुप्
वासिता करिणीनार्योर्वासितं विहगारवे ।ज्ञाने त्रिष्वेव वसनवेष्टिते सुरभीकृते ॥ १६० ॥
17.3.160 · p. 146
अनुष्टुप्
विकृतस्त्रिषु बीभत्से रोगिते स्यादसंस्कृते ।डिम्बे रोगे च विकृतिर्विगतो निष्प्रभे गते ॥ १६१ ॥
17.3.161 · p. 146
अनुष्टुप्
विच्छित्तिरङ्गरागे स्यादपि विच्छेदहावयोः ।विजाता तु प्रसूतायां विकृते जनिते त्रिषु ॥ १६२ ॥
17.3.162 · p. 146
अनुष्टुप्
विततं तु मतं व्याप्ते विस्तृतेऽप्यभिधेयवत् ।विद्युत्तडिति सन्ध्यायां स्त्रियां त्रिष्वेव निष्प्रभे ॥ १६३ ॥
17.3.163 · p. 146
अनुष्टुप्
विदितं स्वीकृते ज्ञाते विधाता वेधसि स्मरे ।विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ॥ १६४ ॥
17.3.164 · p. 147
अनुष्टुप्
विनता वैनतेयस्य जनन्यां पिडिकान्तरे ।विनीतः सुवहाश्वे स्याद्विनयाढ्ये जितेन्द्रिये ॥ १६५ ॥
17.3.165 · p. 147
अनुष्टुप्
उपनीतेऽपनीतेऽपि निभृते वणिजि त्रिषु ।विनेताऽऽदेशके राज्ञि विपत्तिर्याचनापदोः ॥ १६६ ॥
17.3.166 · p. 147
अनुष्टुप्
विवृता क्षुद्ररोगे स्याद्विवृतं तु त्रिषु त्रिषु ।विवर्त्तं समुदाये स्यादप्रवर्त्तननृत्ययोः ॥ १६७ ॥
17.3.167 · p. 147
अनुष्टुप्
विविक्तं विजने पूतेऽप्यसंपृक्तविवेकिनि ।विश्रुतं ज्ञातसंहृष्टप्रतीतेषु त्रिषु त्रिषु ॥ १६८ ॥
17.3.168 · p. 147
अनुष्टुप्
विश्वस्तस्त्रिषु विश्रब्धे विश्वस्ता विधवा स्त्रियाम् ।विहस्तो हस्तरहिते विह्वले षण्ढकेऽपि च ॥ १६९ ॥
17.3.169 · p. 147
अनुष्टुप्
वृत्तान्तो भावकार्त्स्न्ये स्यादपि वार्ताप्रकारयोः ।प्रक्रियायां प्रकरणेऽप्येकान्तेऽपि क्वचिन्मतः ॥ १७० ॥
17.3.170 · p. 148
अनुष्टुप्
वेल्लितं कम्पिते वक्रे प्लुते स्याद्वेल्लितं गतौ ।वेष्टितं करणे स्त्रीणां लसके चावृते त्रिषु ॥ १७१ ॥
17.3.171 · p. 148
अनुष्टुप्
व्याघातस्त्वन्तराये स्याद्योगभेदप्रहारयोः ।व्यायतं तु दृढे दीर्घे व्यापृतेऽतिशयेऽन्यवत् ॥ १७२ ॥
17.3.172 · p. 148
अनुष्टुप्
शकुन्तो विहगे पक्षिभेदे भासाख्यपक्षिणि ।शुद्धान्तोन्तःपुरे कक्षान्तरे रहसि च स्मृतः ॥ १७३ ॥
17.3.173 · p. 148
अनुष्टुप्
राजयोषिति शुद्धान्ता श्रीपतिः नृपकृष्णयोः ।श्रीमांस्तिलकवृक्षे स्यादीश्वरेऽपि मनोहरे ॥ १७४ ॥
17.3.174 · p. 148
अनुष्टुप्
सङ्घातः संहते पुंसि प्रहारे नरकान्तरे ।सङ्गतिः सङ्गते ज्ञाने सन्नतिर्नुतिशब्दयोः ॥ १७५ ॥
17.3.175 · p. 148
अनुष्टुप्
सन्ततिस्तनयापुत्रगोत्रविस्तारपङ्क्तिषु ।परम्पराभावेऽपि स्यात्समाप्तिस्तु समर्थने ॥ १७६ ॥
17.3.176 · p. 149
अनुष्टुप्
विनाशे सम्मतिस्तु स्यादनुमत्यभिलाषयोः ।समितिः सङ्गरे साम्ये सभायां सङ्गमेऽपि च ॥ १७७ ॥
17.3.177 · p. 149
अनुष्टुप्
संविदाजौ प्रतिज्ञायामाचारज्ञानयोः स्त्रियाम् ।संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ॥ १७८ ॥
17.3.178 · p. 149
अनुष्टुप्
संवर्त्तः पुंसि कल्पान्ते हायने च कलिद्रुमे ।सिकता सिकतायुक्तदेशे स्यादामयान्तरे ॥ १७९ ॥
17.3.179 · p. 149
अनुष्टुप्
सिकता वालुकायां स्युः शर्करायामपीष्यते ।सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु ॥ १८० ॥
17.3.180 · p. 149
अनुष्टुप्
सुनीतिः शोभननये सुनीतिर्ध्रुवमातरि ।सुव्रता सुखसन्दोह्यगवर्हत्सद्व्रतेषु च ॥ १८१ ॥
17.3.181 · p. 149
अनुष्टुप्
सुरतं स्यान्निधुवने सुरत्वे सुरता मता ।सुहितस्त्रिषु तृप्ते स्यादुक्ते सुष्ठुहितेऽपि च ॥ १८२ ॥
17.3.182 · p. 150
अनुष्टुप्
सूनृतं मङ्गले सत्यप्रियवाचि न वाच्यवत् ।संस्कृतं लक्षणोपेते कृत्रिमे त्रिषु संस्कृतः ॥ १८३ ॥
17.3.183 · p. 150
अनुष्टुप्
भूषितेऽपि प्रशस्तेऽपि संहतं सङ्गते दृढे ।स्खलितं तूचिताद्भ्रंशे स्खलितं चलिते त्रिषु ॥ १८४ ॥
17.3.184 · p. 150
अनुष्टुप्
स्तमितं वीतचाञ्चल्येप्यार्द्रीभूतेऽपि वाच्यवत् ।स्थपतिः शल्यभेदे स्यादपि कञ्चुकिसूतयोः ॥ १८५ ॥
17.3.185 · p. 150
अनुष्टुप्
जीवेष्टियाजके चाऽथ स्थापितं न्यस्तनिश्चिते ।सुवर्णा तु मता नद्या सरिदौषधिभेदयोः ॥ १८६ ॥
17.3.186 · p. 150
अनुष्टुप्
हरिता मण्डलायां स्याद् हरिद्वर्णयुते त्रिषु ।हरिद्वाहे च पुंस्येव हरितः ककुभि स्त्रियाम् ॥ १८७ ॥
17.3.187 · p. 150
अनुष्टुप्
क्लीबं तृणप्रभेदेऽथ हर्म्मितं क्षिप्तदग्धयोः ।हसन्त्याङ्गारधान्यां स्यान्मल्लिकाशाकिनीभिदोः ॥ १८८ ॥
17.3.188 · p. 151
अनुष्टुप्
हारीतः कैतवेऽपि स्यान्मुनिपक्षिप्रभेदयोः ।हृषितं विस्मृते प्रीते नते रोमाञ्चिते हृते ॥ १८९ ॥
17.3.189 · p. 151
अनुष्टुप्
क्षारितं स्राविते क्षारेऽभिशस्तेऽपि च वाच्यवत् ।
17.3.115 · p. 151