कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

नान्तवर्गः · नषष्ठम्

नषष्ठम् ।

अन्तावसायी श्वपचे नापिते च मुनेर्भिदि ।कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ २५१ ॥
21.6.251 · p. 226
अनुष्टुप्
जायानुजीवी भरते दुर्गताखिलयोर्बके ।मतः सहस्रवेधी तु रामठे चाम्लवेतसे ॥ २५२ ॥
21.6.252 · p. 227
अनुष्टुप्