कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

यान्तवर्गः · यतृतीयम्

यतृतीयम् ।

अत्ययो दूषणे कृच्छ्रेऽतिक्रमे नाशदण्डयोः ।अधृष्यस्तु प्रगल्भे स्यादधृष्या सरिदन्तरे ॥ ६९ ॥
27.3.69 · p. 264
अनुष्टुप्
अनयो व्यसनानीतिदैवाशुमविपत्तिषु ।अपत्यं पुत्रयोः क्लीबमभयो निर्भये त्रिषु ॥ ७० ॥
27.3.70 · p. 264
अनुष्टुप्
मताऽभया तु पथ्यायामभयं स्यादुशीरके ।अभिख्या तु यशःकीर्त्तिशोभाविख्यातिनामसु ॥ ७१ ॥
27.3.71 · p. 265
अनुष्टुप्
त्रिष्ववध्यं वधानर्हे क्लीबेऽनर्थकभाषिते ।स्यादवन्ध्यं तु सफले त्रिषु त्रिष्वफलेग्रहौ ॥ ७२ ॥
27.3.72 · p. 265
अनुष्टुप्
अश्वीयमश्वसङ्घातेऽश्वीयमश्वहिते त्रिषु ।अहल्याप्सरसोभेदे तथा गौतमयोषिति ॥ ७३ ॥
27.3.73 · p. 265
अनुष्टुप्
अहार्यः पर्वते पुंसि स्यादहार्यः स्थिरे त्रिषु ।आतिथ्यमातिथेये स्यादातिथ्यस्त्वतिथौ पुमान् ॥ ७४ ॥
27.3.74 · p. 265
अनुष्टुप्
आत्रेयी पुष्पवत्यां स्यादात्रेयी निम्नगान्तरे ।आत्रेयस्तु मुनेर्भेदे स्यादादित्यः सुरे रवौ ॥ ७५ ॥
27.3.75 · p. 265
अनुष्टुप्
आम्नाय उपदेशेपि स्यादाम्नायः श्रुतावपि ।आशयः स्यादभिप्रायेऽप्याधारे पनसे धने ॥ ७६ ॥
27.3.76 · p. 265
अनुष्टुप्
कोष्ठागारेऽप्यजीर्णेऽपि किंपचानेऽपि चाशयः ।इन्द्रियं रेतसि क्लीबमिन्द्रियं विषयीन्द्रिये ॥ ७७ ॥
27.3.77 · p. 266
अनुष्टुप्
पुंसि स्यादुदयः पूर्वपर्वतेऽपि समुन्नतौ ।उपायः सामभेदादावुपायः स्यादुपागतौ ॥ ७८ ॥
27.3.78 · p. 266
अनुष्टुप्
ऊर्णायुरेडके मेषकम्बलक्षणभङ्गयोः ।एणेयमेण्याश्चर्माद्ये रतबन्धान्तरे स्त्रियाः ॥ ७९ ॥
27.3.79 · p. 266
अनुष्टुप्
औचित्यमुचितत्वे स्यादौचित्यं सत्ययोग्ययोः ।अस्त्री कषायो निर्यासे रसे रक्ते विलेपने ॥ ८० ॥
27.3.80 · p. 266
अनुष्टुप्
अङ्गरागे सुगन्धे तु त्रिषु स्याल्लोहितेऽपि च ।कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥ ८१ ॥
27.3.81 · p. 266
अनुष्टुप्
कुलायो नीडवत्पक्षिनिलयस्थानयोः पुमान् ।कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८२ ॥
27.3.82 · p. 266
अनुष्टुप्
गाङ्गेयस्तु महासेने भीष्मे गङ्गाभवे त्रिषु ।चक्षुष्यः केतके पुण्डरीकवृक्षे रसाञ्जने ॥ ८३ ॥
27.3.83 · p. 267
अनुष्टुप्
अस्त्री स्त्री तु कुलथ्यां स्यादयुक्तकरणेऽपि च ।गाङ्गेयं मुस्तकस्वर्णकसेरुषु नपुंसकम् ॥ ८४ ॥
27.3.84 · p. 267
अनुष्टुप्
गाङ्गेयस्तु महासेने भीष्मे गङ्गोद्भवे त्रिषु ।चक्षुष्यः केतके पुसि शुभगेऽक्षिहिते त्रिषु ॥ ८५ ॥
27.3.85 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पु (wrong syllable)
चाम्पेयश्चम्पके नागकेसरे पुष्पकेसरे ।स्वर्णे क्लीबं जघन्यं तु निन्द्ये चरमशिश्नयोः ॥ ८६ ॥
27.3.86 · p. 267
अनुष्टुप्
जटायुः पक्षिभेदे स्यात्पुंसि गुग्गुलपादपे ।तपस्या व्रतचर्यायां तपस्यः फाल्गुने पुमान् ॥ ८७ ॥
27.3.87 · p. 267
अनुष्टुप्
देवयुर्द्धार्मिके देवयात्रिकेऽप्यभिधेयवत् ।द्वितीया तिथिभित्पत्न्योः पूरणेऽपि द्वयोस्त्रिषु ॥ ८८ ॥
27.3.88 · p. 267
अनुष्टुप्
नादेयी नीरवानीरे भूजम्बूनागरङ्गयोः ।जपाजयन्त्योर्व्यङ्गुष्ठे निकायस्त्वात्मवेश्मनोः ॥ ८९ ॥
27.3.89 · p. 268
अनुष्टुप्
सधर्मिनिवहे लक्ष्ये संहतानां च मेलके ।रङ्गभूमौ तु नेपथ्यं नेपथ्यं च प्रसाधने ॥ ९० ॥
27.3.90 · p. 268
अनुष्टुप्
पयस्या क्षीरकाकोल्यां स्वर्णक्षीर्यामपि स्मृता ।पयस्या दुग्धिकायां च पयोहितभवेऽन्यवत् ॥ ९१ ॥
27.3.91 · p. 268
अनुष्टुप्
पर्जन्यो वासवे मेघध्वनौ च ध्वनदम्बुदे ।पर्यायः क्रमनिर्वाणप्रकारावसरे पुमान् ॥ ९२ ॥
27.3.92 · p. 268
अनुष्टुप्
पेयवारिणि पानीयं पारुष्यस्तु बृहस्पतौ ।पारुष्यं परुषत्वे स्यादपि शुक्रस्य कानने ॥ ९३ ॥
27.3.93 · p. 268
अनुष्टुप्
पौलस्त्यः किन्नराधीशे पौलस्त्यो दशकन्धरे ।प्रकीर्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ॥ ९४ ॥
27.3.94 · p. 268
अनुष्टुप्
प्रणयः प्रेमविश्रम्भप्रश्रयप्रसरेऽर्थने ।प्रणाय्योऽसम्मते तृष्णावर्जितेऽप्यभिधेयवत् ॥ ९५ ॥
27.3.95 · p. 269
अनुष्टुप्
प्रत्ययः शपथे हेतौ ज्ञानविश्वासनिश्चये ।सन्नाद्यधीनरन्ध्रेषु ख्यातत्वाचारयोरपि ॥ ९६ ॥
27.3.96 · p. 269
अनुष्टुप्
प्रलयो मृत्युकल्पान्तमूर्च्छासु विदितः पुमान् ।प्रसव्यमन्यलिङ्गं स्यात्प्रतिकूलानुकूलयोः ॥ ९७ ॥
27.3.97 · p. 269
अनुष्टुप्
वलयः कङ्कणे न स्त्री बलाकण्ठरुजोरपि ।वालेयः फञ्जिकायां स्यात्खरे बालहिते मृदौ ॥ ९८ ॥
27.3.98 · p. 269
अनुष्टुप्
ब्रह्मण्यस्तु शनौ यूपे ब्रह्मसाधौ तु वाच्यवत् ।ब्राह्मण्यं ब्राह्मणत्वे स्याद्ब्राह्मणानां च संहतौ ॥ ९९ ॥
27.3.99 · p. 269
अनुष्टुप्
भुजिष्यस्तु सहायेऽपि हस्तसूत्रेऽप्यथ त्रिषु ।अनधीते भुजिष्या तु वेश्याचेटिकयोर्मता ॥ १०० ॥
27.3.100 · p. 269
अनुष्टुप्
भुवयुः स्याद्बृहद्भानुभानुशीतलभानुषु ।भ्रातृव्यो भ्रातृतनये त्रिषु पुंसि तु विद्विषि ॥ १०१ ॥
27.3.101 · p. 270
अनुष्टुप्
मङ्गल्यं दध्नि मङ्गल्यं तत्रसाधौ मनोहरे ।मङ्गल्यः श्रीफले स्वच्छे मसूरत्रायमाणयोः ॥ १०२ ॥
27.3.102 · p. 270
अनुष्टुप्
मङ्गल्या रोचनायां स्यात्प्रियङ्गुशतपुष्पयोः ।मल्लिगन्धि च यत्कृष्णागुरु तत्रापि सा स्मृता ॥ १०३ ॥
27.3.103 · p. 270
अनुष्टुप्
अधःपुष्पीशमीखण्डपुष्पीश्वेतवचासु च ।मलयः पुंसि देशाद्रिभेदयोः पर्वतांशके ॥ १०४ ॥
27.3.104 · p. 270
अनुष्टुप्
आरामे चन्दने चाथ मलया तृवृतौषधौ ।मृगयुर्ब्रह्मणि प्रोक्तो गोमायुव्याधयोरपि ॥ १०५ ॥
27.3.105 · p. 270
अनुष्टुप्
रहस्यं वाच्यवद्गोप्ये रहस्या तु नदीभिदि ।लौहित्यं रक्ततायां स्यात्पुंसि ब्रीहौ नदान्तरे ॥ १०६ ॥
27.3.106 · p. 270
अनुष्टुप्
वक्तव्यः कुत्सिते हीनेऽप्यधीने वाच्यवत्त्रिषु ।वदान्यस्तु सुवाग्दात्रोर्विजयो जयपार्थयोः ॥ १०७ ॥
27.3.107 · p. 270
अनुष्टुप्
विजया तु मता गौर्यां तत्सखीतिथिभेदयोः ।विनयस्तु नतौ नीतौ शिक्षायां विनयो द्वयोः ॥ १०८ ॥
27.3.108 · p. 271
अनुष्टुप्
विशल्याऽग्निशिखादन्तीगुडूचीतृवृति स्त्रियाम् ।वाच्यवद्गतशल्ये स्याद्विस्मयोऽद्भुतगर्वयोः ॥ १०९ ॥
27.3.109 · p. 271
अनुष्टुप्
विषयो गोचरे देशे इन्द्रियार्थेऽपि नीवृति ।प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः स्मृतः ॥ ११० ॥
27.3.110 · p. 271
अनुष्टुप्
व्यवायः सुरतेन्तर्द्धौ व्यवायं तेजसि स्मृतम् ।शाण्डिल्यो मुनिभेदेऽपि श्रीफले पावकान्तरे ॥ १११ ॥
27.3.111 · p. 271
अनुष्टुप्
शालेयः शतपुष्पायां त्रिषु शाल्युद्भवोचिते ।शीर्षण्यः पुंसि विशदे कचे क्लीबं तु शीर्षके ॥ ११२ ॥
27.3.112 · p. 271
अनुष्टुप्
शैलेयं सिन्धुलवणे तालपर्ण्यां च शैलजे ।भृङ्गे पुंसि श्वशुर्यस्तु देवरे श्यालकेऽपि च ॥ ११३ ॥
27.3.113 · p. 271
अनुष्टुप्
पृष्ठस्थायिबले नीतौ समवायेऽप्रि सन्नयः ।समयः पुंसि सिद्धान्तशपथाचारसंविदि ॥ ११४ ॥
27.3.114 · p. 272
अनुष्टुप्
कालसिद्धान्तनिर्देशक्रियाकारेषु सङ्गमे ।मेलके योगियोगिन्योः समयः क्वापि दृश्यते ॥ ११५ ॥
27.3.115 · p. 272
अनुष्टुप्
सरण्युर्वारिदे वाते सामर्थ्यं योग्यताबले ।सौकर्यं स्यादनायासे क्रियायां सूकरस्य च ॥ ११६ ॥
27.3.116 · p. 272
अनुष्टुप्
सौभाग्यं सुभगत्वे स्याद्योगभेदे पुमानयम् ।सौरभ्यं तु सुगन्धत्वे गुरुत्वे गुणगौरवे ॥ ११७ ॥
27.3.117 · p. 272
अनुष्टुप्
संस्त्यायः सन्निवेशेऽपि संस्थाने विस्मृतौ गणे ।हरिण्यमक्षये द्रव्ये वराटे स्वर्णरेतसि ॥ ११८ ॥
27.3.118 · p. 272
अनुष्टुप्
घटिताऽघटितस्वर्णरूप्ययोर्मानभिद्यपि ।बुक्कायां हृदयं ज्ञेयं हृदयं हृदि वक्षसि ॥ ११९ ॥
27.3.119 · p. 272
अनुष्टुप्
तनौ स्त्रियां क्षिपण्युः स्यात्क्षिपण्युः सुरभौ नरि ।परदाररताऽसाध्यरोगयोः क्षेत्रियः पुमान् ॥ १२० ॥
27.3.120 · p. 273
अनुष्टुप्
अन्यदेहे चिकित्सार्हे क्लीबं क्षेत्रतृणेपि च ।
27.3.53 · p. 273