All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
छान्तवर्गः · छद्वितीयम्
छद्वितीयम् ।
अच्छाव्ययमाभिमुख्ये अच्छस्फटिकयोः पुमान् ।अच्छः स्वच्छेऽन्यलिङ्गः स्यात्कच्छः शैलादिसीमनि ॥ १ ॥
7.2.1 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
नौकाङ्गे तुन्नकेऽनूपे परिधानाञ्चलान्तरे ।कच्छा तु चीरिकायां स्याद् वाराह्यामपि दृश्यते ॥ २ ॥
7.2.2 · p. 65
अनुष्टुप्
गुच्छः स्तबके हारभेदे गुच्छः स्तम्बकलापयोः ।स्यात्पिच्छमस्त्रियां पुच्छे पिच्छा शाल्मलिवेष्टके ॥ ३ ॥
7.2.3 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पङ्क्तौ पूगच्छटाकोशेमण्डेष्वश्वपदामये ।विज्जुलेऽप्यथ पुच्छः स्यात्पिच्छपश्चात्प्रदेशयोः ॥ ४ ॥
7.2.4 · p. 65
अनुष्टुप्
म्लेच्छोऽपभाषणे जातिभेदे पापरतेऽपि च ।
7.2.5 · p. 65