कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

रान्तवर्गः · रतृतीयम् (1/2)

रतृतीयम् ।

अगुरु स्याच्छिंशपायां जोङ्गके लघुनि त्रिषु ।अङ्कुरः स्यादभिनवोद्भिदि रोम्ण्यप्सु शोणिते ॥ १०२ ॥
28.3.102 · p. 294
अनुष्टुप्
अङ्गारस्तूल्मुके न स्त्री पुस्यङ्गारो महीसुते ।वातेऽजिरः प्राङ्गणाङ्गविषये दर्दुरेऽजिरः ॥ १०३ ॥
28.3.103 · p. 294
अनुष्टुप्
अन्तरं तु विशेषे स्यादुत्तरीयावकाशयोः ।आत्मात्मीयविनांऽतर्द्धिबहिर्म्मध्यावधिष्वपि ॥ १०४ ॥
28.3.104 · p. 294
अनुष्टुप्
तादर्थ्येऽवसरे रन्ध्रेऽप्यन्यार्थेऽपि तथान्तरम् ।अपरा तु जरायौ स्यादर्वाचीनेऽपरं त्रिषु ॥ १०५ ॥
28.3.105 · p. 294
अनुष्टुप्
अपरं त्वधुनार्थेऽपि पश्चाद्गात्रेऽपि दन्तिनाम् ।अवरा हिमवत्पुत्र्यां चरमे त्ववरं त्रिषु ॥ १०६ ॥
28.3.106 · p. 294
अनुष्टुप्
अवीरा निष्पतिसुता स्त्रियां शौर्योज्झिते त्रिषु ।अमरस्तु सुरेऽप्यस्थिसंहारे कुलिशद्रुमे ॥ १०७ ॥
28.3.107 · p. 294
अनुष्टुप्
अमरा त्विन्द्रनगरीदूर्वास्थूणागुडूचिषु ।अम्बरं रसकर्प्पासव्योमरागसुगन्धके ॥ १०८ ॥
28.3.108 · p. 295
अनुष्टुप्
गृहे कपाटेऽप्यररमशिरोऽर्क्काग्निराक्षसे ।असुरो दानवे सूर्ये निशाराश्योर्म्मताऽसुरा ॥ १०९ ॥
28.3.109 · p. 295
अनुष्टुप्
अक्षरं न द्वयोर्मोक्षे ब्रह्मणि व्योमवर्णयोः ।उत्पत्तिस्थाननिवहश्रेष्ठेषु ख्यात आकरः ॥ ११० ॥
28.3.110 · p. 295
अनुष्टुप्
आकार इङ्गितेऽपि स्यात्स्यात्स्थानाह्वानयोरपि ।स्यादाधारोऽधिकरणेऽप्यालवालेऽम्बुधारणे ॥ १११ ॥
28.3.111 · p. 295
अनुष्टुप्
आसारस्तु प्रसरणे धारावृष्टौ सुहृद्बले ।आह्वरं तिमिरे युद्धे स्वाबलायां स्वसाध्वसे ॥ ११२ ॥
28.3.112 · p. 295
अनुष्टुप्
आहारो भोजने पुंसि स्यादाहरणहारयोः ।इतरः पामरेऽन्यस्मिन्नित्वरो गत्वरेऽन्यवत् ॥ ११३ ॥
28.3.113 · p. 295
अनुष्टुप्
इत्वरो दुर्विधे नीचे पथिके क्रूरकर्म्मणि ।ईश्वरो धनसम्पन्ने शिवे व्याधिनि मन्मथे ॥ ११४ ॥
28.3.114 · p. 296
अनुष्टुप्
ईश्वरी स्वामिनीगौर्योरीश्वरा स्कन्दमातरि ।उत्तरं प्रतिवाक्ये स्याद्विराटतनये पुमान् ॥ ११५ ॥
28.3.115 · p. 296
अनुष्टुप्
उत्तरा तु मतोदीच्यामूर्द्ध्वोदीच्योत्तमे त्रिषु ।उदरो जठरे युद्धेऽप्युद्धारस्तूद्धृतौ रणे ॥ ११६ ॥
28.3.116 · p. 296
अनुष्टुप्
उदारो दातृमहतोर्दक्षिणस्थूलयोस्त्रिषु ।सर्वशस्याढ्यमेदिन्यां मेदिन्यामपि चोर्वरा ॥ ११७ ॥
28.3.117 · p. 296
अनुष्टुप्
ऋक्षरं वारिधारायां पुंसि ऋत्विजि ऋक्षरः ।एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्यनाकुले ॥ ११८ ॥
28.3.118 · p. 296
अनुष्टुप्
औशीरं चामरे दण्डेऽप्येकोक्त्या शयनाशने ।कर्बुरं पामरेऽपि स्यात्पुंश्चलेऽप्यथ कर्बुरा ॥ ११९ ॥
28.3.119 · p. 296
अनुष्टुप्
दुरालभायां दुःस्पर्शाशूकशिंबीशटीषु च ।कुञ्जरो वारणे सूर्ये विरञ्चिमुनिकुक्षिषु ॥ १२० ॥
28.3.120 · p. 297
अनुष्टुप्
कङ्करं तु मतं तक्रे कङ्करं कुत्सिते त्रिषु ।कटप्रू रक्षसीशेऽक्षदेवने सत्ययौवने ॥ १२१ ॥
28.3.121 · p. 297
अनुष्टुप्
कटित्रं कटिवस्त्रे स्यात्काञ्चीचर्माङ्गयोरपि ।कडारः पिङ्गले दासे पिङ्गवर्णे तु वाच्यवत् ॥ १२२ ॥
28.3.122 · p. 297
अनुष्टुप्
कणेरुः करिणीवेश्याकर्णिकारे गणेरुवत् ।कदरः श्वेतखदिरे रुग्भेदे क्रकचे सृणौ ॥ १२३ ॥
28.3.123 · p. 297
अनुष्टुप्
वा स्त्री तु कन्दरो दर्यामङ्कुशे पुंसि कन्दरः ।कन्धरः पुंसि जलदे ग्रीवायां कन्धरा स्त्रियाम् ॥ १२४ ॥
28.3.124 · p. 297
अनुष्टुप्
कबरं लवणेऽम्ले च शाककेशभिदोः स्त्रियाम् ।नपुंसकं तु कर्बूरं शटीकाञ्चनयोर्मतम् ॥ १२५ ॥
28.3.125 · p. 297
अनुष्टुप्
कर्परस्तु कपाले स्यादस्त्रभेदकटाहयोः ।कररः खगभित्तिश्च करीरः क्रकचार्थकः ॥ १२६ ॥
28.3.126 · p. 298
अनुष्टुप्
वंशाङ्कुरे करीरोऽस्त्री पुंसि वृक्षान्तरे घटे ।करीरी चीरिकायां च दन्तमूले च दन्तिनाम् ॥ १२७ ॥
28.3.127 · p. 298
अनुष्टुप्
कर्करी तु गलन्त्यां स्यात्कर्करो दर्पणे दृढे ।कर्बुरो राक्षसे पापे जले हेम्नि च कर्बुरम् ॥ १२८ ॥
28.3.128 · p. 298
अनुष्टुप्
कर्बुरा कृष्णवृन्तायां कर्बुरं शबलेऽन्यवत् ।कर्वरी तु शिवायां स्याद्व्याघ्रे पुंस्येव कर्बुरः ॥ १२९ ॥
28.3.129 · p. 298
अनुष्टुप्
कलत्रं भूभुजां दुर्गास्थानेऽपि श्रोणिभार्ययोः ।कान्तार उपसर्गादौ कोशकारान्तरे पुमान् ॥ १३० ॥
28.3.130 · p. 298
अनुष्टुप्
कान्तारं दुर्गमार्गेऽपि महारण्येऽपि न स्त्रियाम् ।कावेरी तु नदीभेदे हरिद्रापण्ययोषितोः ॥ १३१ ॥
28.3.131 · p. 298
अनुष्टुप्
काश्मीरं कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः ।किंशारुर्विशिखे सस्यशूके कङ्काख्यपक्षिणि ॥ १३२ ॥
28.3.132 · p. 299
अनुष्टुप्
किर्म्मीरो दैत्यक्रव्यादभेदयोः कर्बुरे त्रिषु ।वर्णमात्रेऽपि किर्म्मीरः किशोरो वाजिबालके ॥ १३३ ॥
28.3.133 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
सूर्येऽपि तरुणावस्थे तैलपर्ण्यामपि स्मृतः ।कुक्कुरः सारमेये स्याद्ग्रन्थिपर्णे तु कुक्कुरम् ॥ १३४ ॥
28.3.134 · p. 299
अनुष्टुप्
कुञ्जरो हस्तिकरयोर्धातक्यां पाटलौ स्त्रियाम् ।कुठरं मैथिले क्लीबं कुठरं कवलेऽपि च ॥ १३५ ॥
28.3.135 · p. 299
अनुष्टुप्
कुठारुः पादपेऽपि स्यात्कर्म्मठेऽपि पुमानयम् ।कुमारो बालके स्कन्दे युवराजेऽश्ववारके ॥ १३६ ॥
28.3.136 · p. 299
अनुष्टुप्
कीरे च वरुणद्रौ च कुमारं जात्यकाञ्चने ।कुमारी कन्यकागौर्योर्नवमल्ल्यां नदीभिदि ॥ १३७ ॥
28.3.137 · p. 299
अनुष्टुप्
सहायराजिताजम्बूद्वीपेषु च मता स्त्रियाम् ।कूर्परो जानुमात्रेऽपि कफोणावपि कूर्प्परः ॥ १३८ ॥
28.3.138 · p. 300
अनुष्टुप्
कुबेरस्त्र्यंबकसखे नदीवृक्षे कुविग्रहे ॥ १३९ ॥
28.3.139 · p. 300
कुहरः कोटरे छिद्रे नागराजविशेषयोः ।कूबरः कुञ्जके चारौ त्रिषु पुंसि युगन्धरे ॥ १४० ॥
28.3.140 · p. 300
अनुष्टुप्
केदार आलवालेऽद्रौ क्षेत्रभूभेदशम्भुषु ।केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥ १४१ ॥
28.3.141 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
केसरो बकुले सिंहच्छटायां नागकेसरे ।पुन्नागेऽस्त्री तु किंजल्के स्यात्तु हिङ्गुनि केसरम् ॥ १४२ ॥
28.3.142 · p. 300
अनुष्टुप्
कौटिरुर्नकुले शक्रे शुक्रगोपेऽपि दृश्यते ।कोटरो नागरे कूपे पुष्करिण्याश्च पाटके ॥ १४३ ॥
28.3.143 · p. 300
अनुष्टुप्
खण्डाभ्रं योषितां हस्तक्षतभेदेऽभ्रलेशके ।खदिरी शाकभेदे स्यात्खदिरो बालपुत्रके ॥ १४४ ॥
28.3.144 · p. 300
अनुष्टुप्
खपुरः क्रमुके भद्रमुस्तके लसके पुमान् ।खपुरं तूद्वसपुरे खर्जूरस्तु द्वयोर्द्रुमे ॥ १४५ ॥
28.3.145 · p. 301
अनुष्टुप्
द्रुणे धूर्त्तेऽपि खर्जूरो खर्जूरं रजते मतम् ।पिण्डपूर्वस्तु खर्जूरो मतः क्ष्मापालकाम्बके ॥ १४६ ॥
28.3.146 · p. 301
अनुष्टुप्
खर्परस्तस्करे भिक्षापात्रे धूर्त्तकपालयोः ।खिङ्खिराश्च स्त्रियां भूम्नि खिङ्खिरा च शिवान्तरे ॥ १४७ ॥
28.3.147 · p. 301
अनुष्टुप्
भिक्षाभाण्डेऽपि भिक्षाणां खट्वाङ्गे वारिबालके ।गर्गरो मीनभेदे स्यान्मन्थन्यां गर्गरी स्त्रियाम् ॥ १४८ ॥
28.3.148 · p. 301
अनुष्टुप्
गह्वरस्तु गुहायां स्याद्गहने कुञ्जदम्भयोः ।गान्धारस्तु स्वरे देशे गान्धारं रक्तवालुके ॥ १४९ ॥
28.3.149 · p. 301
अनुष्टुप्
वनेऽपि स्यात्तु गान्धारी धृतराष्ट्रस्य योषिति ।गायत्री खदिरे स्त्री स्याच्छन्दोवेदप्रभेदयोः ॥ १५० ॥
28.3.150 · p. 301
अनुष्टुप्
कैवर्त्तीमुस्तके द्वारि पुरद्वारे तु गोपुरम् ।घर्घरस्तु चलद्वारिशब्दे घूके नदान्तरे ॥ १५१ ॥
28.3.151 · p. 302
अनुष्टुप्
चमरं चामरे वल्ल्यां चमरी मञ्जरौ मृगे ।चातुरश्चातुरकवच्चक्रगण्डौ नियन्तरि ॥ १५२ ॥
28.3.152 · p. 302
अनुष्टुप्
दृग्गोचरे चाटुकारे चिकुरश्चञ्चले कचे ।गृहे बभ्रौ भुजङ्गे च शैले पक्षिद्रुमान्तरे ॥ १५३ ॥
28.3.153 · p. 302
अनुष्टुप्
छित्वरं छेदनद्रव्ये छित्वरो धूर्र्तविद्विषोः ।छिदिरस्तु बृहद्भानुखड्गरज्जुपरश्वधे ॥ १५४ ॥
28.3.154 · p. 302
अनुष्टुप्
जठरं कठिने वृद्धे त्रिषु स्यादुदरेऽस्त्रियाम् ।जम्बीरः पुंसि जम्बीरपादपप्रस्थपुष्पयोः ॥ १५५ ॥
28.3.155 · p. 302
अनुष्टुप्
जर्जरं वाच्यवज्जीर्णे जर्जरं वासवध्वजे ।जलेन्द्रो वरुणे सिन्धौ जलेन्द्रो जम्भले मतः ॥ १५६ ॥
28.3.156 · p. 302
अनुष्टुप्
जमुरिः पुंसि वज्रे स्याज्जमुरिः पावके पुमान् ।झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे ॥ १५७ ॥
28.3.157 · p. 303
अनुष्टुप्
झल्लरी झलरी च द्वे हुडुक्के बालचक्रके ।टगरष्टङ्कणे टैरे हेलाविभ्रमगोचरे ॥ १५८ ॥
28.3.158 · p. 303
अनुष्टुप्
टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मयेऽपि च ।डिङ्गरो वाच्यवत्क्षेपे डिङ्गरो डङ्गरे पुमान् ॥ १५९ ॥
28.3.159 · p. 303
अनुष्टुप्
तिमिरं दृग्गदे ध्वान्ते तीवरो लुब्धकेम्बुधौ ।तुम्बरी तु मता शुन्यामार्द्रधान्याकयोरपि ॥ १६० ॥
28.3.160 · p. 303
अनुष्टुप्
तुषारो हिमतद्भेदशीकरे तद्वति त्रिषु ।कषायशृङ्गवृषयोः श्मश्रुपुंसि तु तूवरः ॥ १६१ ॥
28.3.161 · p. 303
अनुष्टुप्
स्यात्त्वक्पत्री तु कारव्यां त्वक्पत्रं तु वराङ्गके ।दण्डारः कुम्भकृच्चक्रे वहने मत्तवारणे ॥ १६२ ॥
28.3.162 · p. 303
अनुष्टुप्
शरयन्त्रे दन्तुरस्तु विषमोन्नतदन्तयोः ।दहरो मूषिकायां स्यात्स्वल्पभ्रातरि बालके ॥ १६३ ॥
28.3.163 · p. 304
अनुष्टुप्
दर्द्दरः शैलभेदे स्यात्किञ्चिद्भग्ने तु वाच्यवत् ।दर्दुरो भेकघनयोर्वाद्यभाण्डाद्रिभेदयोः ॥ १६४ ॥
28.3.164 · p. 304
अनुष्टुप्
दर्दुरा हरकान्तायां ग्रामजाले तु दर्दुरम् ।दासेरो दासिकापत्ये त्रिषु पुंसि क्रमेलके ॥ १६५ ॥
28.3.165 · p. 304
अनुष्टुप्
दीनारो नाणके स्वर्णमानभेदेऽपि दृश्यते ।दुर्द्धरं त्रिषु दुर्द्धर्ये पुमांस्तु ऋषभौषधौ ॥ १६६ ॥
28.3.166 · p. 304
अनुष्टुप्
दैत्यारिस्त्रिदिवे विष्णौ द्वापरः संशये युगे ।धूसरस्तु खरे स्वल्पपाण्डुरे तद्वति त्रिषु ॥ १६७ ॥
28.3.167 · p. 304
अनुष्टुप्
नरेन्द्रः पृथिविनाथे विषवैद्येऽपि वार्त्तिके ।गजादौ सरलादर्योर्निष्कलायां च नर्मरा ॥ १६८ ॥
28.3.168 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
नागरो नगरोद्भूते विदग्धेऽप्यभिधेयवत् ।नागरं मस्तके शुण्ठ्यां रतभेदेऽपि नागरम् ॥ १६९ ॥
28.3.169 · p. 305
अनुष्टुप्
निकरो निवहे सारे न्यायदेयघनान्तरे ।निकारः स्यात्परिभवे धानस्योत्क्षेपणेऽपि च ॥ १७० ॥
28.3.170 · p. 305
अनुष्टुप्
सूर्याश्वे फेनकर्पासतुषवह्निषु निर्झरः ।निर्जरस्त्रिदशे त्यक्तजराके त्वभिधेयवत् ॥ १७१ ॥
28.3.171 · p. 305
अनुष्टुप्
निर्जरा तु गुडूच्यां स्यात्तालपत्र्यां च दृश्यते ।निर्वरं निस्त्रपे सारे निर्भये कठिनेऽपि च ॥ १७२ ॥
28.3.172 · p. 305
अनुष्टुप्
निष्ठुरः कठिनेऽपि स्यात्त्रपाशून्येऽपि निष्ठुरः ।स्यान्नीवरो वाणिजके वास्तव्ये त्रिषु नीवरः ॥ १७३ ॥
28.3.173 · p. 305
अनुष्टुप्
पङ्कारः सेतुसोपानशैवले जलकुब्जके ।पञ्जरस्तु शरीरे स्यात्पक्षिपाशे तु पञ्जरम् ॥ १७४ ॥
28.3.174 · p. 305
अनुष्टुप्
पादालिन्दे पदारः स्यात्पदारः पादधूलिषु ।पवित्रमुपवीतांबुताम्रे दर्भेऽपि धर्मणि ॥ १७५ ॥
28.3.175 · p. 306
अनुष्टुप्
मेध्ये त्रिष्वथ पाटीरः केदारे तितउन्यपि ।मूलके वार्तिके वङ्गे वेणुसारेऽपि वारिदे ॥ १७६ ॥
28.3.176 · p. 306
अनुष्टुप्
पाण्डुरं स्यान्मरुबके वर्णे ना तद्वति त्रिषु ।पामरो वाच्यवन्नीचे मूर्खे स्वस्थेऽपि पामरः ॥ १७७ ॥
28.3.177 · p. 306
अनुष्टुप्
राजयक्ष्मणि कीनाशे भक्तशिक्थेपि पार्परः ।पार्प्परो भस्ममात्रेऽपि जठरे नीपकेसरे ॥ १७८ ॥
28.3.178 · p. 306
अनुष्टुप्
पिञ्जरं कनके पीते त्रिषु पुंसि हयान्तरे ।पिठरस्तु मतः स्थाल्यां पिठरं मन्थमुस्तयोः ॥ १७९ ॥
28.3.179 · p. 306
अनुष्टुप्
पिण्डारो महिषीपाले क्षेपक्षपणशाखिषु ।पीवरः कच्छपे पुंसि पीनेषु त्रिषु पीवरः ॥ १८० ॥
28.3.180 · p. 306
अनुष्टुप्
पुष्करं व्योम्नि पानीये हस्तिहस्ताग्रपद्मयोः ।रोगोरगौषधिद्वीपतीर्थभेदेऽपि सारसे ॥ १८१ ॥
28.3.181 · p. 307
अनुष्टुप्
काण्डे खड्गफले वाद्यभाण्डवक्त्रे च पुष्करम् ।प्रकरो निकुरुम्बे स्यात्प्रकीर्णकुसुमादिषु ॥ १८२ ॥
28.3.182 · p. 307
अनुष्टुप्
प्रकरं जोड्गके ज्ञेयं प्रकरी चत्वरावनौ ।प्रकारः सदृशे भेदे प्रखरोऽतिखरे त्रिषु ॥ १८३ ॥
28.3.183 · p. 307
अनुष्टुप्
प्रखरः स्यात्तुरङ्गादिसन्नाहेऽश्वतरे शुनि ।प्रदरः स्त्रीरुजो भेदे प्रदरः शरभङ्गयोः ॥ १८४ ॥
28.3.184 · p. 307
अनुष्टुप्
प्रान्तरं दूरशून्याऽध्ववनयोरपि कोटरे ।प्रवीरः सुभटेऽपि स्यात्प्रवीरः क्वचिदुत्तरे ॥ १८५ ॥
28.3.185 · p. 307
अनुष्टुप्
प्रवरं सन्ततौ गोत्रे प्रवरस्तु वनेऽन्यवत् ।प्रकारः सङ्गरे वेशे प्रसरः प्रणयेऽपि च ॥ १८६ ॥
28.3.186 · p. 307
अनुष्टुप्
प्रस्तरः पुंसि पाषाणे मणौ च प्रस्तरः पुमान् ।वण्ठरस्तु करीरस्य कोषे स्यात्तालपल्लवे ॥ १८७ ॥
28.3.187 · p. 308
अनुष्टुप्
वकोटे स्थगिकारज्जौ लाङ्गूले कुक्कुरस्य च ।बदरी कोलिकार्पास्योर्बदरं तु फले तयोः ॥ १८८ ॥
28.3.188 · p. 308
अनुष्टुप्
एलापर्ण्यां तु वदरा विष्णुक्रान्तौषधावपि ।बन्धूरबन्धुरौ रम्ये नम्रे त्रिष्वथ बन्धुरः ॥ १८९ ॥
28.3.189 · p. 308
अनुष्टुप्
बन्धूके विहगे हंसे बन्धुरं तून्नतानते ।बन्धुरा पण्ययोषायां वरत्रा वध्रिकान्ययोः ॥ १९० ॥
28.3.190 · p. 308
अनुष्टुप्
बर्बरः केशविन्यासे पारसीकेऽपि पामरे ।बर्बरा फञ्जिकायां च बर्बरा शाकपुष्पयोः ॥ १९१ ॥
28.3.191 · p. 308
अनुष्टुप्
बागरो निर्नरे शाणे वारके वारवेष्टयोः ।बागरो विगतातङ्के मुमुक्षौ च विशारदे ॥ १९२ ॥
28.3.192 · p. 308
अनुष्टुप्
वासरो दिवसे पुंसि नागभेदेऽपि वासरः ।वासुरा वासितायां स्यान्निशाभूम्योश्च वासुरा ॥ १९३ ॥
28.3.193 · p. 309
अनुष्टुप्
भार्यारुः क्रीडया यस्य पुत्रोऽभूत्परयोषिति ।तस्मिन्मृगाद्रिभेदे च भास्करो वह्निसूर्ययोः ॥ १९४ ॥
28.3.194 · p. 309
अनुष्टुप्
भृङ्गारी झिल्लिकायां स्याद्भृङ्गारः कनकालुके ।भ्रमरः कामुके भृङ्गे भ्रामरं माक्षिकाश्मयोः ॥ १९५ ॥
28.3.195 · p. 309
अनुष्टुप्
मकरस्तु मराले स्यान्निधिराशिप्रभेदयोः ।मकुरो मुकुरश्चैव दर्पणे बकुलद्रुमे ॥ १९६ ॥
28.3.196 · p. 309
अनुष्टुप्
मत्सरोऽन्यशुभद्वेषे मात्सर्ये क्रुधि मत्सरः ।त्रिषु तद्वत्कृपणयोर्मक्षिकायां तु मत्सरा ॥ १९७ ॥
28.3.197 · p. 309
अनुष्टुप्
मन्दारः सिन्धुरे धूर्त्ते मधुद्रौ भृङ्गकामिनोः ।मधुरस्तु रसे पुंसि मधुरं तु विषान्तरे ॥ १९८ ॥
28.3.198 · p. 309
अनुष्टुप्
मधुरो रसवत्स्वादुप्रियेषु त्रिषु वाच्यवत् ।मधुरा मधुकुक्कुट्यां शतपुष्पाऽपुरीभिदोः ॥ १९९ ॥
28.3.199 · p. 310
अनुष्टुप्
मिश्रेयाशुक्रयोर्मेदामधुलीयष्टिकासु च ।मन्थरः सूचके कोशे मन्थानेऽप्यथ मन्थरम् ॥ २०० ॥
28.3.200 · p. 310
अनुष्टुप्
कुसुंभ्यां मन्थरस्तु स्यान्मन्दे वक्रे पृथौ त्रिषु ।मन्दारः स्वर्गमन्दारमन्थशैलेषु पुंस्ययम् ॥ २०१ ॥
28.3.201 · p. 310
अनुष्टुप्
मन्दरस्तु मतो मन्दे बहलेऽप्यभिधेयवत् ।मन्दिरं नगरेऽगारे मन्दिरो मकरालये ॥ २०२ ॥
28.3.202 · p. 310
अनुष्टुप्
मंदारो देववृक्षे स्यात्पारिभद्रार्कपर्णयोः ।मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ २०३ ॥
28.3.203 · p. 310
अनुष्टुप्
मयूरः शिख्यपामार्गशिखिचूडासु दृश्यते ।मर्मरो वस्त्रभेदेऽपि पत्रभेदेऽपि मर्मरः ॥ २०४ ॥
28.3.204 · p. 310
अनुष्टुप्
मर्मरी दारुवर्णिन्यां पीतदारौ च मर्म्मरी ।मसूरो मसुरश्चैव व्रीहिभित्पण्ययोषितोः ॥ २०५ ॥
28.3.205 · p. 311
अनुष्टुप्
मसूरा मसुरा चात्र मसूरी पापरुग्भिदि ।मिहिरस्तपने बुद्धे महेन्द्रे वासवे गिरौ ॥ २०६ ॥
28.3.206 · p. 311
अनुष्टुप्
स्यात्पारिपार्श्विके भानोर्द्विजभेदेऽपि माठरः ।मायूरं चापि मार्जारं क्रीडाबन्धे च तद्गणे ॥ २०७ ॥
28.3.207 · p. 311
अनुष्टुप्
मार्जार ओतौ खट्टाशे मुदिरः कामुकेऽम्बुदे ।लोष्टादिभेदनोपाये मल्लीभेदेऽपि मुद्गरम् ॥ २०८ ॥
28.3.208 · p. 311
अनुष्टुप्
मुर्मुरः सूर्यतुरगे तुषवह्नौ च मन्मथे ।मुहिरः पुंसि मदने मूर्खे तु मुहिरस्त्रिषु ॥ २०९ ॥
28.3.209 · p. 311
अनुष्टुप्
रुधिरं कुङ्कुमे रक्ते रुधिरो भूमिनन्दने ।वठरः कुमठेऽपि स्याद्वठरः शठवस्त्रयोः ॥ २१० ॥
28.3.210 · p. 311
अनुष्टुप्
बर्करस्तरुणे वाच्यलिङ्गो मेषे तु वर्करः ।वल्लूरं त्रिषु संशुष्कमांसे मांसे च दंष्ट्रिणः ॥ २११ ॥
28.3.211 · p. 312
अनुष्टुप्
वल्लूरस्तूषरे क्लीबं वनक्षेत्रेऽपि वाहने ।वल्लरी वल्लरं चैव मञ्जर्यामथ वल्लरः ॥ २१२ ॥
28.3.212 · p. 312
अनुष्टुप्
शाद्वले निर्झरस्थाने बिल्वक्षेत्रनिकुञ्जयोः ।वशिरः सिन्धुलवणकिणिहीभकणार्थकः ॥ २१३ ॥
28.3.213 · p. 312
अनुष्टुप्
वार्द्दरं दक्षिणावर्त्तशङ्खे वारि च वार्दरम् ।वार्दरं रक्तगुञ्जायां बीजेपि कृमिजेऽपि च ॥ २१४ ॥
28.3.214 · p. 312
अनुष्टुप्
धूपेऽपि पक्षिवासाय गृहकुम्भेऽपि वासतुः ।विकारो विकृतौ रोगे विदारो दारणे रणे ॥ २१५ ॥
28.3.215 · p. 312
अनुष्टुप्
विदुरः पण्डिते खिड्गे कौरवाणां च मन्त्रिणि ।विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतम् ॥ २१६ ॥
28.3.216 · p. 312
अनुष्टुप्
विधुरा तु रसालायां विधुरं विकलेन्यवत् ।विवरं वर्त्तते गर्त्ते दोषेऽपि छिद्ररन्ध्रवत् ॥ २१७ ॥
28.3.217 · p. 313
अनुष्टुप्
विसरः प्रसरे पुंसि विसरो निकुरम्बके ।विस्तरः पुंसि विस्तारे प्रपञ्चे प्रणयेऽपि च ॥ २१८ ॥
28.3.218 · p. 313
अनुष्टुप्
विस्तारः पुंसि विटपे विस्तारो विस्तृतावपि ।विष्टरः कुशमुष्टौ स्यादासनेऽपि महीरुहे ॥ २१९ ॥
28.3.219 · p. 313
अनुष्टुप्
विहारो भ्रमणे स्कन्धे सुगतालयलीलयोः ।छन्दोभेदे नदीभेदे मेखलायां च शक्वरी ॥ २२० ॥
28.3.220 · p. 313
अनुष्टुप्
शङ्करः पार्वतीनाथे त्रिषु कल्याणकारिणि ।शणीरं शोणमध्यस्थपुलिने दर्दरीतटे ॥ २२१ ॥
28.3.221 · p. 313
अनुष्टुप्