All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
दान्तवर्गः · दतृतीयम्
दतृतीयम् ।
अङ्गदो वालिपुत्रे स्यात्केयूरे त्वङ्गदं मतम् ।भवेद्दक्षिणदिग्दन्तीदन्तिन्यां तु मताऽङ्गदा ॥ १५ ॥
19.3.15 · p. 169
अनुष्टुप्
अस्त्री सङ्ख्यान्तरे मांसकीले शैलेऽपि नाऽर्बुदः ।अर्द्धेन्दुरर्द्धचन्द्रे स्याद्गलहस्तनखाङ्कयोः ॥ १६ ॥
19.3.16 · p. 169
अनुष्टुप्
अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ।आक्रन्दो दारुणरणे मित्रे तातारिरोदने ॥ १७ ॥
19.3.17 · p. 170
अनुष्टुप्
पार्ष्णिग्राहात्परो राजा यस्तस्मिन्नारदेऽपि च ।सुगन्धिमुदि वामोद आस्पदं पदकृत्ययोः ॥ १८ ॥
19.3.18 · p. 170
अनुष्टुप्
स्त्री ककुत् ककुदोऽप्यस्त्री वृषाङ्गे राजलक्ष्मणि ।शृङ्गे श्रेष्ठे कपर्दस्तु वटे शम्भुजटाटयोः ॥ १९ ॥
19.3.19 · p. 170
अनुष्टुप्
कर्कन्दुः साक्षरे शाके वारिजाले गुदामये ।उत्क्षिप्तिकायां कर्णान्दुः कर्णपाल्यामपि स्त्रियाम् ॥ २० ॥
19.3.20 · p. 170
अनुष्टुप्
कामदा धेनुकायां स्याद्वाच्यवत्कामदोग्धरि ।कुमुदो नागदिग्नागदैत्यान्तरवनौकसि ॥ २१ ॥
19.3.21 · p. 170
अनुष्टुप्
कुमुदं कैरवे क्लीबं कृपणे कुमुदन्यवत् ।कुसीदिके कुसीदः स्यात्कुसीदं वृद्धिजीवने ॥ २२ ॥
19.3.22 · p. 170
अनुष्टुप्
कौमुदः कार्त्तिके ज्योत्स्नापर्वणोरपि कौमुदी ।क्रव्यात्क्रव्यादवत्पुंसि मांसभक्षकरक्षसोः ॥ २३ ॥
19.3.23 · p. 171
अनुष्टुप्
गोविन्द इन्द्रावरजे गवाध्यक्षे च गीष्पतौ ।गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ॥ २४ ॥
19.3.24 · p. 171
अनुष्टुप्
बलाहकोऽपि जलदो जलदो मुस्तकेऽपि च ।जीवदो द्विषि वैद्ये च तरत्कारण्डवे प्लवे ॥ २५ ॥
19.3.25 · p. 171
अनुष्टुप्
तोयदो मुस्तके मेघे तोयदं तु घृतं मतम् ।दरद्भये प्रपातेऽद्रौ दायादो ज्ञातिपुत्रयोः ॥ २६ ॥
19.3.26 · p. 171
अनुष्टुप्
दारदः पारदे सिन्धौ हिङ्गुले गरलान्तरे ।दृषत्पेषणपाषाणपट्टपाषाणयोः स्त्रियाम् ॥ २७ ॥
19.3.27 · p. 171
अनुष्टुप्
धनदो दातरि श्रीदे क्रीडामात्ये तु नर्म्मदः ।नर्मदा नर्मदायिन्यां रेवायामपि नर्मदा ॥ २८ ॥
19.3.28 · p. 171
अनुष्टुप्
नलदं मकरन्दे स्यान्मासिकोशीरयोरपि ।निर्वादस्तु परीवादपरनिन्दितवादयोः ॥ २९ ॥
19.3.29 · p. 172
अनुष्टुप्
निषादः स्वरभेदेऽपि निषादः पचपचेऽपि च ।प्रणादोऽत्युच्चशब्दे स्यात्प्रणादः कर्णरुग्भिदि ॥ ३० ॥
19.3.30 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रमदा मत्तकाशिन्यां प्रमदो गर्वितामुदि ।प्रसादस्तु प्रसन्नत्वे काव्यालङ्करणान्तरे ॥ ३१ ॥
19.3.31 · p. 172
अनुष्टुप्
स्वास्थ्ये चानुग्रहे चाथ प्रह्लादः प्रणदेऽसुरे ।प्रासादः पुंसि देवस्य नरदेवस्य वाऽऽलये ॥ ३२ ॥
19.3.32 · p. 172
अनुष्टुप्
कन्यायां वरदा शान्ते प्रसन्ने वरदस्त्रिषु ।भसत्पुंस्येव काले स्याद्भसन्मांसे प्रभासुरे ॥ ३३ ॥
19.3.33 · p. 172
अनुष्टुप्
मर्यादा तु स्थितौ सीम्नि कूले कूले च वारिधेः ।माकन्दतु रसाले स्यान्माकन्द्यामलकीफले ॥ ३४ ॥
19.3.34 · p. 172
अनुष्टुप्
मैनादश्छागमार्जारमेघनादानुलासिषु ।वातर्दिर्वल्कले काष्ठलोहीवेदेकयोः स्त्रियाम् ॥ ३५ ॥
19.3.35 · p. 173
अनुष्टुप्
विशदः पाण्डरे व्यक्ते शरत्स्त्री शरदब्दयोः ।शारदा जलपिप्पल्यां सप्तपर्णेऽथ शारदः ॥ ३६ ॥
19.3.36 · p. 173
अनुष्टुप्
नवाऽप्रतिमशालीनपीतमुद्गेन्दुवर्षयोः ।स्त्रियां सम्पद्गुणोत्कर्षे भूतिहारप्रभेदयोः ॥ ३७ ॥
19.3.37 · p. 173
अनुष्टुप्
संवित्प्रतिज्ञासङ्केतज्ञानाचारेषु नामनि ।स्त्रियां तोषे क्रियाकारे रणे सम्भाषणेऽपि च ॥ ३८ ॥
19.3.38 · p. 173
अनुष्टुप्
सम्भेदस्तु विकाशे स्यात्सम्भेदः सिन्धुसङ्गमे ।सुनन्दा रोचनानार्योः क्षणदो गणके पुमान् ॥ ३९ ॥
19.3.39 · p. 173
अनुष्टुप्
त्रिषूत्सवप्रदे वारि क्षणदं क्षणदा निशि ।
19.3.26 · p. 173