All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
रान्तवर्गः · रपञ्चमम्
रपञ्चमम् ।
उत्पलपत्रं तूत्पलच्छदे योषिन्नखक्षते ।स्वर्गनद्यां तु कपिलधारा तीर्थान्तरे पुमान् ॥ ८ ॥
28.5.8 · p. 327
अनुष्टुप्metre not read in every line
तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ।तालीशपत्रं तालीशे तामलक्या च न द्वयोः ॥ ९ ॥
28.5.9 · p. 328
अनुष्टुप्
क्लीबं तु पीतकाबेरं पित्तले कुङ्कुमेऽपि च ।स्यात्पांशुचामरो धूलीगुच्छकेऽपि प्रशंसने ॥ ११ ॥
28.5.11 · p. 328
अनुष्टुप्
वर्द्धापके पुरोटौ च दूर्वाञ्चिततटीभुवि ।बकुले वेधके नागकुसुमे नागकेसरः ॥ १२ ॥
28.5.12 · p. 328
अनुष्टुप्
स्याद्राजबदरं रक्तामलके लवलीफले ।रोमगुच्छे च मन्तौ च रोमकेसर इष्यते ॥ १३ ॥
28.5.13 · p. 328
अनुष्टुप्
वस्वौकसारा श्रीदस्य नलिन्यामलकापुरि ।विप्रतीसारः कौकृत्ये रोषेऽप्यनुशयेऽपि च ॥ १४ ॥
28.5.14 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रः (wrong syllable)
मतः समभिहारस्तु पौनःपुन्ये भृशार्थके ।पुंस्येव सर्वतोभद्रः काव्यचित्रे गृहान्तरे ॥ १५ ॥
28.5.15 · p. 329
अनुष्टुप्
निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति ॥ १६ ॥
28.5.16 · p. 329