कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

ठान्तवर्गः · ठद्वितीयम्

ठद्वितीयम् ।

कठो मुनावृचां भेदे तदध्येतरि तद्विदि ॥ १ ॥
13.2.1 · p. 86
स्वरेऽपि कण्ठस्तु गले पार्श्वे शल्यद्रुशब्दयोः ।काष्ठोत्कर्षे दिशि स्थाने कालमाने च सीमनि ॥ २ ॥
13.2.2 · p. 86
अनुष्टुप्
काष्ठा दारुहरिद्रायां काष्ठं तु क्लीबमिन्धने ।कुण्ठो मूर्खेप्यकर्मण्ये कुष्ठं भेषजरोगयोः ॥ ३ ॥
13.2.3 · p. 86
अनुष्टुप्
कोष्ठोऽन्तःकुक्षिगृहयोः कुसूलात्मीययोरपि ।गोष्ठी सभायां संलापे गोष्ठं गोस्थानके मतम् ॥ ४ ॥
13.2.4 · p. 86
अनुष्टुप्
ज्येष्ठो मासेऽग्रजे श्रेष्ठे वृद्धे ज्येष्ठा तु तारके ।मुसल्यामङ्गुलीभेदे दुष्ठः स्याद्दुर्बलेऽधमे ॥ ५ ॥
13.2.5 · p. 86
अनुष्टुप्
निष्ठा निर्वहनिष्पत्तिनाशान्तोत्कर्षयाचने ।क्लेशेऽथ पाठाम्बष्ठायां पाठस्तु पठने पुमान् ॥ ६ ॥
13.2.6 · p. 87
अनुष्टुप्
पृष्ठं शरीरावयवान्तरेऽपि चरमेऽपि च ।प्रष्ठोऽग्रगामिनि श्रेष्ठे प्रष्ठा चाण्डालिकौषधौ ॥ ७ ॥
13.2.7 · p. 87
अनुष्टुप्
वण्ठः स्यादकृतोद्वाहे कुन्तधारकखर्वयोः ।शठस्तु पुंसि धत्तूरे धूर्त्तमध्यस्थयोस्त्रिषु ॥ ८ ॥
13.2.8 · p. 87
अनुष्टुप्
शोठोऽलसे च मूर्खे च श्रेष्ठो वरकुबेरयोः ।षष्ठी तु षण्णां पूरण्यां त्रिषु स्त्री हरयोषिति ॥ ९ ॥
13.2.9 · p. 87
अनुष्टुप्
हठस्तु स्याद्बलात्कारे वारिपर्ण्यां तु पुंस्ययम् ।
13.2.10 · p. 87