All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
अव्ययानि · अजन्तानि
इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां क्षकारान्तवर्गः ।
अथाव्ययानि ।
अजन्तानि ।
अकारादिकमप्येवमिदानीं समनुक्रमात् ।मया नानार्थकाण्डेऽस्मिन्विधीयन्तेऽव्ययानि च ॥ १ ॥
36.1.1 · p. 406
अनुष्टुप्
अः श्रीकण्ठेऽव्ययं तुल्याभावयोराः पितामहे ।आ प्रगृह्यः स्मृतौ वाक्येऽत्यल्पेऽव्ययमथाऽव्ययम् ॥ २ ॥
36.1.2 · p. 406
अनुष्टुप्
आङीषदर्थेऽभिव्याप्तौ सीमायां धातुयोगजे ।सन्तापे च प्रकोपे च भवेदाः स्मृतमव्ययम् ॥ ३ ॥
36.1.3 · p. 406
अनुष्टुप्
इस्तु कामे पुमान्खेदे रुषोक्तौ चाव्ययं भवेत् ।ई लक्ष्म्यामव्ययं त्वी स्याद्दुःखभावनकोपयोः ॥ ४ ॥
36.1.4 · p. 406
अनुष्टुप्
उः शिवे नाऽव्ययं तु स्यात्सम्बुद्धौ रोषमापणे ।ऊः स्यादनव्ययं रक्षारक्षसू त्रिषु रक्षके ॥ ५ ॥
36.1.5 · p. 406
अनुष्टुप्
सूतिक्रियायां सूतौ च वाक्यारम्भे त्वसङ्ख्यकम् ।ऋर्देवमातरि स्त्री स्यादव्ययं वाक्यकुत्सयोः ॥ ६ ॥
36.1.6 · p. 406
अनुष्टुप्
ॠश्च स्त्री देवताम्बायां स्यादेः पुंसि चतुर्भुजे ।स्मृतिसम्बोधनाह्वानेऽव्ययमैस्तु शिवे पुमान् ॥ ७ ॥
36.1.7 · p. 407
अनुष्टुप्
अव्ययं त्वै समाख्यातं स्मृत्यामन्त्रणहूतिषु ।ओः पुमान्ब्रह्मणि ख्यातेऽव्ययमामन्त्रणाह्वयोः ॥ ८ ॥
36.1.8 · p. 407
अनुष्टुप्
और्नभस्यव्ययं तु स्यात्सम्बुद्ध्याह्वानयोर्मतम् ।परब्रह्मण्यनुमतावः स्यादश्च तथाऽव्ययम् ॥ ९ ॥
36.1.9 · p. 407
अनुष्टुप्
अः पुंसि शङ्करे ख्यातः कादिख्यातमतोव्ययम् ।
36.1.10 · p. 407