All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
घान्तवर्गः · घद्वितीयम्
घद्वितीयम् ।
पापेऽर्त्तौ व्यसने चाऽघं स्यादर्घोऽर्चनमूल्ययोः ॥ १ ॥
4.2.1 · p. 58
अङ्घ्रिः स्याज्जानुचरणे मूले चापि महीरुहाम् ।उद्घो हस्तपुटे देहपवने पावके पुमान् ॥ २ ॥
4.2.2 · p. 58
अनुष्टुप्
ओघः परम्परायां स्याद्द्रुतनृत्योपदेशयोः ।ओघः पाथःप्रवाहे च समूहे च पुमानयम् ॥ ३ ॥
4.2.3 · p. 58
अनुष्टुप्
मघा दशमनक्षत्रे मघा स्याद्रुतजान्तरे ।वारिवाहेऽपि मेघः स्यान्मेघः स्यान्मुस्तकेऽपि च ॥ ४ ॥
4.2.4 · p. 58
अनुष्टुप्
मोघस्तु निष्फले दीने मोघा पाटलिपादपे ।लघुर्मनोज्ञनिः सारागुरुलघुषु वाच्यवत् ॥ ५ ॥
4.2.5 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
पृक्कायां स्त्री लघु क्लीबं कृष्णागुरुणि सत्वरे ।श्लाघा तु स्यात्प्रशंसायां परिचर्याऽभिलाषयोः ॥ ६ ॥
4.2.6 · p. 58
अनुष्टुप्