All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
गान्तवर्गः · गद्वितीयम्
गद्वितीयम् ।
अगः स्यान्नगवद्वृक्षे शैलै भानुभुजङ्गयोः ।अङ्गा नीवृत्प्रभेदे स्युरङ्गो देशेङ्गमन्तिके ॥ ३ ॥
3.2.3 · p. 47
अनुष्टुप्
गात्रोपायाप्रधानेषु प्रतीकेप्यङ्गवत्यपि ।अङ्ग संबोधनेऽसङ्ख्यं पुनरर्थप्रमोदयोः ॥ ४ ॥
3.2.4 · p. 47
अनुष्टुप्
इङ्गः स्यादिङ्गिते ज्ञाने जङ्गमाद्भुतयोरपि ।खगो विहङ्गे विशिखे खगः सूर्ये सुरे ग्रहे ॥ ५ ॥
3.2.5 · p. 47
अनुष्टुप्
खड्गः खड्गिनि निस्त्रिंशे खड्गिशृङ्गे जिनान्तरे ।गाङ्गः षडानने भीष्मे गङ्गाभूते तु वाच्यवत् ॥ ६ ॥
3.2.6 · p. 47
अनुष्टुप्
चङ्गस्तु शोभने दक्षे टङ्गोऽस्त्री स्यात्खनित्रके ।तथैवास्त्रान्तरेऽप्यस्त्री जङ्घायां खड्गभेदके ॥ ७ ॥
3.2.7 · p. 47
अनुष्टुप्
उन्नते वाच्यवत्तुङ्गस्तुङ्गः पुन्नागशैलयोः ।बर्वरानिशयोस्तुङ्गी त्यागो दाने च वर्जने ॥ ८ ॥
3.2.8 · p. 48
अनुष्टुप्
दुर्गः स्याद्दुर्गमे दुर्गा चण्डीनीलिकयोर्मता ।नगस्तु पर्वते वृक्षे नगो भानुभुजङ्गयोः ॥ ९ ॥
3.2.9 · p. 48
अनुष्टुप्
देहाऽनिलान्तरे श्रेष्ठे श्रेष्ठ एवोत्तरस्थितः ।नागं तु सीसके रङ्गे स्त्रीबन्धकरणान्तरे ॥ ११ ॥
3.2.11 · p. 48
अनुष्टुप्
पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गं तु बालके ।पिङ्गा रामठनील्यां स्यादुमारोचनयोरपि ॥ १२ ॥
3.2.12 · p. 48
अनुष्टुप्
पूगस्तु निकुरम्बे स्यात्पूगः क्रमुकपादपे ।फल्गुर्मलप्वामाख्याता निष्फले फल्गु वाच्यवत् ॥ १३ ॥
3.2.13 · p. 48
अनुष्टुप्
भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु ।ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ॥ १४ ॥
3.2.14 · p. 49
अनुष्टुप्
भङ्गस्तरङ्गरुग्भेदे दम्भे जयविपर्यये ।भङ्गा शणाख्यसस्ये स्याद्भागो रूपार्धकांशयोः ॥ १५ ॥
3.2.15 · p. 49
अनुष्टुप्
एकदेशे च भाग्ये च विपूर्वस्तु विभञ्जने ।भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ॥ १६ ॥
3.2.16 · p. 49
अनुष्टुप्
भृङ्गः पुष्पत्वपे खिड्गे तथा धूम्याटपक्षिणि ।नपुंसकं तु भृङ्गं स्यात्केशराजभृगूटयोः ॥ १७ ॥
3.2.17 · p. 49
अनुष्टुप्
पुंसि भोगः सुखेऽपि स्यादहेश्च फणकाययोः ।निर्वेशे गणिकादीनां भोजने पालने धने ॥ १८ ॥
3.2.18 · p. 49
अनुष्टुप्
मार्गोऽग्रहायणे वाटे कस्तूरीविषयोरपि ।मृगः कुरङ्गेऽपि पशौ मृगयामृगशीर्षयोः ॥ १९ ॥
3.2.19 · p. 49
अनुष्टुप्
हस्तिभेदेऽपि याञ्चायां मृगी स्यान्नायिकान्तरे ।प्रशस्तरथसाराङ्गं युग्मेऽपि स्यात्कृतादिषु ॥ २० ॥
3.2.20 · p. 50
अनुष्टुप्
युगं हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ।योगः संनाहसंधानसङ्गतिध्यानकर्मणि ॥ २१ ॥
3.2.21 · p. 50
अनुष्टुप्
विष्कम्भादिषु सूत्रे च द्रव्ये विश्वस्तघातिनि ।चरे चापूर्वलाभेऽपि भेषजोपाययुक्तिषु ॥ २२ ॥
3.2.22 · p. 50
अनुष्टुप्
रागोऽनुरागमात्सर्ये क्लेशादौ लोहितादिषु ।गान्धारादौ नृपे नागे रोगः कुष्ठौषधे गदे ॥ २३ ॥
3.2.23 · p. 50
अनुष्टुप्
लङ्गः खिड्गेऽपि सङ्गेऽपि लिङ्गं चिह्नाऽनुमानयोः ।मेहने शिवभेदे च साङ्ख्योक्तप्रकृतावपि ॥ २४ ॥
3.2.24 · p. 50
अनुष्टुप्
वङ्गो देशान्तरे भण्टातकीकार्पासयोः पुमान् ।वङ्गं रङ्गे च नागे च वङ्गा पुंभूम्नि नीवृति ॥ २५ ॥
3.2.25 · p. 50
अनुष्टुप्
वर्गोऽध्याये च वृन्दे च वर्गः पञ्चाक्षरीभिदि ।वल्गुर्ना नकुले छागे मनोज्ञे वल्गु वाच्यवत् ॥ २६ ॥
3.2.26 · p. 51
अनुष्टुप्
वेगो जवे प्रवाहे च महाकालफलेऽपि च ।व्यङ्गस्तु पुंसि मण्डूके हीनाङ्गे व्यङ्गमन्यवत् ॥ २७ ॥
3.2.27 · p. 51
अनुष्टुप्
क्लीबं शरासने शार्ङ्गं शार्ङ्गं विष्णुशरासने ।शृङ्गं विषाणे शिखरे प्रभुत्वोत्कर्षसानुषु ॥ २८ ॥
3.2.28 · p. 51
अनुष्टुप्
चिह्नं क्रीडाम्बुयन्त्रे च शृङ्गः स्याकूर्चशीर्षके ।शृङ्गी विषायामृषभे मीनस्वर्गविशेषयोः ॥ २९ ॥
3.2.29 · p. 51
अनुष्टुप्
सर्गः स्वभावनिर्मोक्षनिश्चयोत्साहसृष्टिषु ।मोहेऽध्याये च शुङ्गी तु न्यग्रोधप्लक्षपीतने ॥ ३० ॥
3.2.30 · p. 51
अनुष्टुप्