All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
वान्तवर्गः · वद्वितीयम्
वद्वितीयम् ।
कविः शुक्रेऽपि वाल्मीके सूरौ काव्यकरे पुमान् ॥ २ ॥
30.3.2 · p. 360
किण्वं पापे सुराबीजे क्लीबः पण्डेऽप्यविक्रमे ।खर्वो ह्रस्वे न्यगर्थेपि खर्वः स्यादभिधेयवत् ॥ ३ ॥
30.3.3 · p. 360
अनुष्टुप्
ग्रीवा ग्रीवाशिरायां स्याद्ग्रीवा स्यात्कन्धराभिधा ।छविः स्यादपि शोभायां द्युतावपि मतश्छविः ॥ ४ ॥
30.3.4 · p. 360
अनुष्टुप्
ओन्ड्रपुष्पे जवा वेगे जवो वेगिनि वाच्यवत् ।जीवो वाचस्पतौ वृक्षप्रभेदे प्राणिमात्रयोः ॥ ५ ॥
30.3.5 · p. 360
अनुष्टुप्
जीवा जीवन्तिकामौर्वीक्षितिशिञ्जितवृत्तिषु ।मता जीवा वचायां च जीवा जीवं च जीविते ॥ ६ ॥
30.3.6 · p. 360
अनुष्टुप्
तत्त्वं स्वरूपे नृत्यस्य प्रभेदे परमात्मनि ।दवो दावश्च पुंस्येव वनेऽपि वनपावके ॥ ७ ॥
30.3.7 · p. 360
अनुष्टुप्
दिवं स्वर्गेऽन्तरिक्षे च द्यौर्द्यौर्दिवि च खे स्त्रियाम् ।देवो राज्ञि सुरे मेघे देवं स्यादिन्द्रिये मतम् ॥ ८ ॥
30.3.8 · p. 360
अनुष्टुप्
देवी भट्टारिकायां च तेजनीपृक्कयोरपि ।नाट्योक्यां चाभिषिक्तायां देवी देवी नृपस्त्रियाम् ॥ ९ ॥
30.3.9 · p. 361
अनुष्टुप्
द्रवः स्यान्नर्मणि रसे प्रद्रावे विद्रवे गतौ ।द्वन्द्वं तु मिथुने युग्मे द्वन्द्वः कलहगुह्ययोः ॥ १० ॥
30.3.10 · p. 361
अनुष्टुप्
धवः पत्यौ पुमान्वृक्षभेदे धूर्त्ते नरेऽपि च ।ध्रुवः क्लीबे शिवे शङ्कौ मुनौ योगे वटै वसौ ॥ ११ ॥
30.3.11 · p. 361
अनुष्टुप्
ध्रुवं तु निश्चिते तर्क्के नित्यनिश्चलयोस्त्रिषु ।ध्रुवा मूर्वाशालिपर्ण्योर्गीतिस्रुग्भेदयोरपि ॥ १२ ॥
30.3.12 · p. 361
अनुष्टुप्
नवः काके स्तुतौ पुंसि नवं नव्येऽभिधेयवत् ।नीवी तु स्त्रीकटीवस्त्रग्रन्थौ मूलधनेऽस्त्रियाम् ॥ १३ ॥
30.3.13 · p. 361
अनुष्टुप्
मतं पक्वं परिणते विनाशाभिमुखे त्रिषु ।पार्श्वं कक्षाऽधरे चक्रोपान्ते पर्शुगणाऽन्तिके ॥ १४ ॥
30.3.14 · p. 361
अनुष्टुप्
पृथ्वी भुवि पृथौ हिङ्गुपत्रिकाकृष्णजीरयोः ।प्राध्वं तु बन्धने प्रह्वेऽप्यतिदूरपथे तथा ॥ १५ ॥
30.3.15 · p. 362
अनुष्टुप्
प्लवः कारण्डवे भेके मेलके वारिवायसे ।प्लक्षे प्लुतिगतौ शब्दे निषादे कुलके कपौ ॥ १६ ॥
30.3.16 · p. 362
अनुष्टुप्
क्रमनिम्नक्षितौ गन्धतृणेऽपि न द्वयोः प्लवम् ।भवः श्रीकण्ठसंसारश्रेयःसत्ताप्तिजन्मसु ॥ १७ ॥
30.3.17 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
भावः स्वभावचेष्टाऽभिप्रायसत्त्वात्मजन्मनि ।भावः क्रियायां लीलायां पदार्थेऽभिनयान्तरे ॥ १८ ॥
30.3.18 · p. 362
अनुष्टुप्
जन्तौ बुधे विभूतौ च नाट्योक्त्या पण्डितेऽपि च ।रेवा जंबालिनीभेदे रेवा नीलीस्मरस्त्रियोः ॥ १९ ॥
30.3.19 · p. 362
अनुष्टुप्
मता लघ्वी तु ह्रस्वायां प्रकारे स्यन्दनस्य च ।लट्वा करंजभेदे स्यात्फले वाद्ये खगान्तरे ॥ २० ॥
30.3.20 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
लवो लेशे विलासे च च्छेदने रामनन्दने ।श्रीफलेऽपि फले बिल्वं विश्वे देवेषु नागरे ॥ २१ ॥
30.3.21 · p. 363
अनुष्टुप्
विश्वा विषायां सर्वस्मिन्विश्वं स्यादभिधेयवत् ।विश्वं तु विष्टपे क्लीबं शिविर्भूर्जे नृपान्तरे ॥ २२ ॥
30.3.22 · p. 363
अनुष्टुप्
शिवो हरे योगभेदे वेदे कीलेऽपि बालुके ।गुग्गुले पुण्डरीकद्रौ शिवं मोक्षे सुखे जले ॥ २३ ॥
30.3.23 · p. 363
अनुष्टुप्
कुशलेऽपि शिवा तु स्याद्गौर्यामलकहेतुषु ।शिवा झाटामलापथ्याक्रोष्ट्रीसक्तुफलासु च ॥ २४ ॥
30.3.24 · p. 363
अनुष्टुप्
सत्त्वं जन्तुषु न स्त्री स्यात्सत्त्वं प्राणात्मभावयोः ।द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः ॥ २५ ॥
30.3.25 · p. 363
अनुष्टुप्
स्वभावे व्यवसाये च सत्त्वमित्यभिधीयते ।सवं जलाढ्ययोः स्नाने सवः सन्धानयज्ञयोः ॥ २६ ॥
30.3.26 · p. 363
अनुष्टुप्
सान्त्वं दाक्षिण्यमान्नेऽपि सांत्वं सामनि च स्मृतम् ।स्रुवा स्रुग्भेदशल्लक्योर्मूर्वायां च मता स्रुवा ॥ २७ ॥
30.3.27 · p. 364
अनुष्टुप्
हवः स्यादध्वराह्वाननिदेशेषु मतः पुमान् ।ह्रस्वः खर्वे न्यगर्थेपि राजिकायां क्षुते क्षवः ॥ २८ ॥
30.3.28 · p. 364
अनुष्टुप्