कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

लान्तवर्गः · लचतुर्थम्

लचतुर्थम् ।

बलाभेदे त्वतिबला प्रबलेऽतिबलस्त्रिषु ।अक्षमाला विजानीयादरुन्धत्यक्षसूत्रयोः ॥ १५२ ॥
29.4.152 · p. 355
अनुष्टुप्
उदूखलं गुग्गुलौ स्यादुलूखलमुलूखले ।एकाष्ठीला स्त्रियां पुंसि पापचेल्यां बुके क्रमात् ॥ १५३ ॥
29.4.153 · p. 355
अनुष्टुप्
कचमालो मरुद्वाहे नागभेदे जटान्तरे ।कन्दरालः पुमान्गर्द्दभाण्डेऽक्षप्लक्षवृक्षयोः ॥ १५४ ॥
29.4.154 · p. 355
अनुष्टुप्
अस्त्री कमण्डलुः कुण्ड्यां पर्क्कटीपादपे पुमान् ।क्लीबं कर्म्मफलं कर्म्मरङ्गकर्म्मविपाकयोः ॥ १५५ ॥
29.4.155 · p. 355
अनुष्टुप्
पुंसि कोलाहले सर्जरसे कलकलः स्मृतः ।कुतूहलं कौतुके स्यात्त्रिषु शस्ते कुतूहलम् ॥ १५६ ॥
29.4.156 · p. 355
अनुष्टुप्
कृताञ्जलिस्तु भैषज्ये विहितो येन चाञ्जलिः ।खतमालः पुमान्धूमे खतमालो बलाहके ॥ १५७ ॥
29.4.157 · p. 355
अनुष्टुप्
गण्डशैलो गिरिभ्रष्टस्थूलोपलकपोलयोः ।स्त्रियां गन्धफली फल्यां तथा चम्पककोरके ॥ १५८ ॥
29.4.158 · p. 356
अनुष्टुप्
गोलांगूलं तु गोपुच्छे गोलाङ्गूलः कपौ पुमान् ।चक्रबालो गिरेर्भेदे चक्रवालं तु मण्डले ॥ १५९ ॥
29.4.159 · p. 356
अनुष्टुप्
जलाञ्चलं तु शैवाले स्वतः पानीयनिर्गमे ।दलामलं मरुबके दमनेऽपि दलामलम् ॥ १६० ॥
29.4.160 · p. 356
अनुष्टुप्
ध्वनिनाला तु वीणायां वेणुकाहलयोरपि ।भवेत्परिमलश्चित्तहारिगन्धविमर्दयोः ॥ १६१ ॥
29.4.161 · p. 356
अनुष्टुप्
रतामर्दसमुन्मीलदङ्गरागादिसौरभे ।पीठकेलिः पीठमर्द्दे करकाकेक्षिरागयोः ॥ १६२ ॥
29.4.162 · p. 356
अनुष्टुप्
दौर्गतौ वारिवाहे च पीठकेलिपदाभिधा ।स्त्रीपुंसयोर्बहुफला मलयूनीपयोः क्रमात् ॥ १६३ ॥
29.4.163 · p. 356
अनुष्टुप्
बृहन्नलो गुडाकेशे महापोटगलेऽपि च ।भद्रकाली तु पार्वत्यां गन्धोल्यामोषधीभिदि ॥ १६४ ॥
29.4.164 · p. 357
अनुष्टुप्
भस्मतूलं हिमे पांशुवर्षणग्रामकूटयोः ।मणिमाला मता योषिद्दशनक्षतहारयोः ॥ १६५ ॥
29.4.165 · p. 357
अनुष्टुप्
मदकलः स्यान्मत्तेभे मदेनाऽव्यक्तवाचि च ।महाकालो महादेवे किम्पाके प्रमथान्तरे ॥ १६६ ॥
29.4.166 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द (wrong syllable)
महानीलो नागभेदे महानीलश्च मार्कवे ।महाबलं सीसके च बलप्रौढे तु वाच्यवत् ॥ १६७ ॥
29.4.167 · p. 357
अनुष्टुप्
गोरक्षतण्डुलायां तु स्त्रियामेव महाबला ।मुक्ताफलं तु मुक्तायां कर्णपूरे बले फले ॥ १६८ ॥
29.4.168 · p. 357
अनुष्टुप्
स्यात्कदल्यां मृत्युफली महाकालतरौ पुमान् ।पुमान्यवफलो वेणौ कुटजे मांसिकौषधौ ॥ १६९ ॥
29.4.169 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मृ (wrong syllable)
रजस्वलस्तु महिषे पुष्पवत्यां रजस्वला ।वातकेलिः कलालापे षिड्गानां दन्तखण्डने ॥ १७० ॥
29.4.170 · p. 358
अनुष्टुप्
क्लीबं वायुफलं शक्रकार्मुके वर्षणोपले ।पुमान्विचकिलो मल्लीभेदे दमनकेऽपि च ॥ १७१ ॥
29.4.171 · p. 358
अनुष्टुप्
उदुम्बरे स्कन्धफले नालिकेरे सदाफलः ।हरिताली नभोरेखाखड्गदूर्वासु दृश्यते ॥ १७२ ॥
29.4.172 · p. 358
अनुष्टुप्
हलाहलो ब्रह्मसर्प्पे ज्येष्ठिकायां विषान्तरे ।ऐरावते हस्तिमल्लो हस्तिमल्लो विनायके ॥ १७३ ॥
29.4.173 · p. 358
अनुष्टुप्