कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

पान्तवर्गः · पतृतीयम्

पतृतीयम् ।

पुंस्यनूपस्तु महिषे वाच्यवञ्जलसङ्कुले ।आकल्पो वेशमात्रे स्यादाकल्पः कल्पनेऽपि च ॥ १३ ॥
22.3.13 · p. 229
अनुष्टुप्
आवापो भाण्डे वपने परिक्षेपालवालयोः ।आक्षेपो भर्त्सनत्यागाकर्षणे काव्यभूषणे ॥ १४ ॥
22.3.14 · p. 229
अनुष्टुप्
उडुपः पुंसि चन्द्रे स्यादुडुपे भेलकेऽस्त्रियाम् ।उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतम् ॥ १५ ॥
22.3.15 · p. 229
अनुष्टुप्
कच्छपः कमठे काष्ठे मल्लभेदेऽपि कच्छपः ।कच्छपी तु डुलौ क्षुद्ररुग्भेदे वल्लकीभिदि ॥ १६ ॥
22.3.16 · p. 230
अनुष्टुप्
कलापः संहते बर्हे काव्यादौ तूणवृन्दयोः ।भक्ते वस्त्रे च कशिपुरेकोक्त्या तूभयोरपि ॥ १७ ॥
22.3.17 · p. 230
अनुष्टुप्
काश्यपी तु क्षितौ मीनमुनिभेदे तु कश्यपः ।कुटपोऽस्त्री मानभेदे कुटपो निष्कुटे मुनौ ॥ १८ ॥
22.3.18 · p. 230
अनुष्टुप्
विदारिकायां कुणपी पूतिगन्धौ शवे पुमान् ।कुतपो भागिनेये स्यादष्टमांशे दिनस्य च ॥ १९ ॥
22.3.19 · p. 230
अनुष्टुप्
कुतपस्तपने छागकम्बले कुशवाद्ययोः ।जिह्वापः शुनि मार्जारे व्याघ्रपादपयोरपि ॥ २० ॥
22.3.20 · p. 230
अनुष्टुप्
पादपः पादपीठेऽद्रौ पादगण्डे च पादपः ।पादपा पादुकायां स्यात्प्रतापः खेदतेजसोः ॥ २१ ॥
22.3.21 · p. 230
अनुष्टुप्
रक्तपा स्याज्जलौकायां रक्तपस्तु क्षपाचरे ।विकल्पो विचिकित्सायां विकल्पो भ्रान्तिपक्षयोः ॥ २२ ॥
22.3.22 · p. 231
अनुष्टुप्
विटपोस्त्री लतास्तम्बखिड्गविस्तारपल्लवे ।
22.3.11 · p. 231