कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Viśvalocanakośa

विश्वलोचनकोश Viśvalocanakośa

2,516 verses · text only, tagging comes next

हान्तवर्गः · हचतुर्थम्

हचतुर्थम् ।

अभिग्रहोऽभिग्रहणेऽप्यभियोगेऽपि गौरवे ॥ २४ ॥
34.4.24 · p. 400
अवरोहोऽवतरणे मतो मूलाल्लतोद्गमे ।शाखाशिफायां त्रिदिवेऽवग्रहस्तु गजालिके ॥ २५ ॥
34.4.25 · p. 400
अनुष्टुप्
वृष्टिरोधे प्रतिबन्धेऽप्यस्वातन्त्र्येऽप्यवग्रहः ।अवग्राहो भवेद्वृष्टिरोधहस्तिललाटयोः ॥ २६ ॥
34.4.26 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अश्वारोहाऽश्वगन्धायामश्वारोहोऽश्ववारके ।पुमानुपग्रहो वन्द्यामुपयोगेऽनुकूलने ॥ २७ ॥
34.4.27 · p. 400
अनुष्टुप्
उपनाहस्तु वीणायां बन्धने व्रणलेपने ।नासिकायां गन्धवहा वाते गन्धवहः पुमान् ॥ २८ ॥
34.4.28 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
तनूरुहं तु गरुति स्याल्लोम्नि च तनूरुहम् ।तमोपहो जिने सूर्ये दहने मृगलक्ष्मणि ॥ २९ ॥
34.4.29 · p. 400
अनुष्टुप्
सूतो देवसहो देवसहा दण्डोत्पलौषधौ ।परिग्रहः परिजने पत्न्यां स्वीकारशापयोः ॥ ३० ॥
34.4.30 · p. 401
अनुष्टुप्
मूलेऽपि परिबर्हस्तु राजयोग्ये परिच्छदे ।परीवाहो जलोच्छ्वासे भूपालोचितवस्तुनि ॥ ३१ ॥
34.4.31 · p. 401
अनुष्टुप्
पितामहः पितुस्ताते ब्रह्मण्यपि पितामहः ।प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे ग्रहान्तरे ॥ ३२ ॥
34.4.32 · p. 401
अनुष्टुप्
महद्भ्यो विधिवद्देये तद्ग्रहे च पतद्ग्रहे ।वरारोहा कटौ नार्यां पुंसि साद्यवरोहयोः ॥ ३३ ॥
34.4.33 · p. 401
अनुष्टुप्
महासहा मासपर्ण्यामम्लानेऽपि महासहाः ।
34.4.11 · p. 401