All kośas › Viśvalocanakośa
विश्वलोचनकोश Viśvalocanakośa
2,516 verses · text only, tagging comes next
कान्तवर्गः · कषष्ठम्
कषष्ठम् ।
ग्राममद्गुरिका शृङ्ग्यां ग्रामयुद्धे च दृश्यते ॥ २४४ ॥
1.6.244 · p. 42
भवेन्मदनशलाका तु सार्यां कामोदयौषधौ ।भवेन्मातुलजे धूर्तफले मातुलपुत्रकः ॥ २४५ ॥
1.6.245 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लूतामर्कटिका पुत्र्यां नवमालप्लवङ्गयोः ।श्लोकच्छायाहरे चौरे भवेद्वर्णविलोडकः ॥ २४६ ॥
1.6.246 · p. 42
अनुष्टुप्
सिन्दूरतिलको नागे सिन्दूरतिलकस्त्रियाम् ।चतुर्मासोपवासी यः स स्यात्स्नानचिकित्सकः ॥ २४७ ॥
1.6.247 · p. 42
अनुष्टुप्
तपस्विपुष्पयोश्चैव मतं स्नानचिकित्सकम् ॥ २४८ ॥
1.6.248 · p. 43